अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 3
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
ये ब्रा॑ह्म॒णं प्र॒त्यष्ठी॑व॒न्ये वा॑स्मिञ्छु॒ल्कमी॑षि॒रे। अ॒स्नस्ते॒ मध्ये॑ कु॒ल्यायाः॒ केशा॒न्खाद॑न्त आसते ॥
स्वर सहित पद पाठये । ब्रा॒ह्म॒णम् । प्र॒ति॒ऽअष्ठी॑वन् । ये । वा॒ । अ॒स्मि॒न् । शु॒ल्कम् । ई॒षि॒रे । अ॒स्न: । ते । मध्ये॑ । कु॒ल्याया॑: । केशा॑न् ।खाद॑न्त: । आ॒स॒ते॒ ॥१९.३॥
स्वर रहित मन्त्र
ये ब्राह्मणं प्रत्यष्ठीवन्ये वास्मिञ्छुल्कमीषिरे। अस्नस्ते मध्ये कुल्यायाः केशान्खादन्त आसते ॥
स्वर रहित पद पाठये । ब्राह्मणम् । प्रतिऽअष्ठीवन् । ये । वा । अस्मिन् । शुल्कम् । ईषिरे । अस्न: । ते । मध्ये । कुल्याया: । केशान् ।खादन्त: । आसते ॥१९.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(ये) दुष्टाः (ब्राह्मणम्) ब्रह्मवेत्तारम् (प्रत्यष्ठीवन्) ष्ठिवु निरसने−लङ्। प्रत्यक्षं निरस्तवन्तः बहिष्कृतवन्तः (ये) (वा) अथवा (अस्मिन्) ब्राह्मणे (शुल्कम्) शुल्क अतिस्पर्शने, सर्जने−घञ्। करम् (ईषिरे) ईष उञ्छे लिट्, आत्मनेपदं छान्दसम्। एकत्र कृतम् (अस्नः) अ० ५।५।८। असृज, असन् आदेशः। रुधिरस्य (ते) ब्राह्मणनिन्दकाः (मध्ये) घोरसंग्राममध्ये (कुल्यायाः) कुल संस्त्याने−क्यप्। टाप्। नद्याः−निघ०। १।१३। (केशान्) क्लिशेरन् लो लोपश्च। उ० ५।३३। इति क्लिश उपतापे−अन्, लस्य लोपः। क्लिष्टान् पदार्थान् (खादन्तः) भक्षयन्तः (आसते) तिष्ठन्ति ॥
इस भाष्य को एडिट करें