Loading...
अथर्ववेद > काण्ड 5 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 14
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    येन॑ मृ॒तं स्न॒पय॑न्ति॒ श्मश्रू॑णि॒ येनो॒न्दते॑। तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन् ॥

    स्वर सहित पद पाठ

    येन॑ । मृ॒तम् । स्न॒पय॑न्ति । श्मश्रू॑णि । येन॑ । उ॒न्दते॑ । तम् । वै । ब्र॒ह्म॒ऽज्य॒ । ते॒ । दे॒वा: । अ॒पाम् । भा॒गम् । अ॒धा॒र॒य॒न् ॥१९.१४॥


    स्वर रहित मन्त्र

    येन मृतं स्नपयन्ति श्मश्रूणि येनोन्दते। तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥

    स्वर रहित पद पाठ

    येन । मृतम् । स्नपयन्ति । श्मश्रूणि । येन । उन्दते । तम् । वै । ब्रह्मऽज्य । ते । देवा: । अपाम् । भागम् । अधारयन् ॥१९.१४॥

    अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 14

    टिप्पणीः - १४−(येन) जलेन (मृतम्) मृतकम् (स्नपयन्ति) स्नानं कारयन्ति (श्मश्रूणि) शीङ् शयने−मनिन् स च डित्। इति श्म शरीरम्। श्मनि श्रयतेर्डुन्। उ० ५।२८। इति श्म+श्रिञ् सेवायां−डुन् रुट् च। श्म शरीरम्...श्मश्रु लोम श्मनि श्रितं भवति−निरु० ३।५। शरीरे श्रितानि लोमानि इन्द्रियाणि वा (येन) (उन्दते) क्लेदयन्ति। अन्यत् पूर्ववत्−म० १३ ॥

    इस भाष्य को एडिट करें
    Top