Loading...
अथर्ववेद > काण्ड 5 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 4
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    ब्र॑ह्मग॒वी प॒च्यमा॑ना॒ याव॒त्साभि वि॒जङ्ग॑हे। तेजो॑ रा॒ष्ट्रस्य॒ निर्ह॑न्ति॒ न वी॒रो जा॑यते॒ वृषा॑ ॥

    स्वर सहित पद पाठ

    ब्र॒ह्म॒ऽग॒वी । प॒च्यमा॑ना । याव॑त् । सा । अ॒भि । वि॒ऽजङ्ग॑हे । तेज॑: । रा॒ष्ट्रस्य॑ । नि: । ह॒न्ति॒ । न । वी॒र: । जा॒य॒ते॒ । वृषा॑ ॥१९.४॥


    स्वर रहित मन्त्र

    ब्रह्मगवी पच्यमाना यावत्साभि विजङ्गहे। तेजो राष्ट्रस्य निर्हन्ति न वीरो जायते वृषा ॥

    स्वर रहित पद पाठ

    ब्रह्मऽगवी । पच्यमाना । यावत् । सा । अभि । विऽजङ्गहे । तेज: । राष्ट्रस्य । नि: । हन्ति । न । वीर: । जायते । वृषा ॥१९.४॥

    अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 4

    टिप्पणीः - ४−(ब्रह्मगवी) गोरतद्धितलुकि। पा० ५।४।९२। इति ब्रह्मगो−टच्, ङीप्। ब्रह्मविद्या (पच्यमाना) तप्यमाना (यावत्) यत्परिमाणम् (सा) प्रसिद्धा (अभि) सर्वतः (विजङ्गहे) गमेर्यङ्लुकि लोटि मध्यमपुरुषे जङ्गहि, इत्यस्य स्थाने जङ्गहे इति रूपं लटः प्रथमपुरुषस्य स्थाने। विजङ्गन्ति विशेषेण भृशं गच्छति (तेजः) प्रभावः (राष्ट्रस्य) राज्यस्य (निर्हन्ति) नितरां नाशयति (न) निषेधे (वीरः) शूरः (जायते) प्रादुर्भवति (वृषा) ऐश्वर्यवान्। इन्द्रः ॥

    इस भाष्य को एडिट करें
    Top