अथर्ववेद - काण्ड 5/ सूक्त 9/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - वास्तोष्पतिः
छन्दः - विराडुष्णिग्बृहतीगर्भा पञ्चपदा जगती
सूक्तम् - आत्मा सूक्त
सूर्यो॑ मे॒ चक्षु॒र्वातः॑ प्रा॒णो॒न्तरि॑क्षमा॒त्मा पृ॑थि॒वी शरी॑रम्। अ॒स्तृ॒तो नामा॒हम॒यम॑स्मि॒ स आ॒त्मानं॒ नि द॑धे॒ द्यावा॑पृथि॒वीभ्यां॑ गोपी॒थाय॑ ॥
स्वर सहित पद पाठसूर्य॑: । मे॒ । चक्षु॑: । वात॑: । प्रा॒ण: । अ॒न्तरि॑क्षम् । आ॒त्मा । पृ॒थि॒वी । शरी॑रम् । अ॒स्तृ॒त: । नाम॑ । अ॒हम् । अ॒यम्। अ॒स्मि॒ । स: । आ॒त्मान॑म् । नि । द॒धे॒ । द्यावा॑पृथि॒वीभ्या॑म् । गो॒पी॒थाय॑ ॥९.७॥
स्वर रहित मन्त्र
सूर्यो मे चक्षुर्वातः प्राणोन्तरिक्षमात्मा पृथिवी शरीरम्। अस्तृतो नामाहमयमस्मि स आत्मानं नि दधे द्यावापृथिवीभ्यां गोपीथाय ॥
स्वर रहित पद पाठसूर्य: । मे । चक्षु: । वात: । प्राण: । अन्तरिक्षम् । आत्मा । पृथिवी । शरीरम् । अस्तृत: । नाम । अहम् । अयम्। अस्मि । स: । आत्मानम् । नि । दधे । द्यावापृथिवीभ्याम् । गोपीथाय ॥९.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 9; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(सूर्यः) सूर्यवत् प्रकाशनमस्ति (मे) मम (चक्षुः) नेत्रम् (वातः) वायुः। वायुसदृशप्रगमनः (प्राणः) (अन्तरिक्षम्) द्यावापृथिव्योर्मध्ये वर्तमानोऽवकाशतुल्यः (पृथिवी) भूमिवत् सहनशीलम् (शरीरम्) देहः (अस्तृतः) स्तृञ् आच्छादने-क्त। अनाच्छादितः (नाम) प्रसिद्धौ (अयम्) (अस्मि) (सः) सोऽहम् (आत्मानम्) आत्मसामर्थ्यम् (नि) नित्यम् (दधे) ददामि (द्यावापृथिवीभ्याम्) सूर्यभूमिभ्याम्। तदुपलक्षितसर्वलोकाय (गोपीथाय) निशीथगोपीथावगथाः। उ० २।९। इति गुपू रक्षणे-थक् निपातनात् साधुः। रक्षणाय। यद्वा गो+पा रक्षणे-थक्, निपातनादीत्वम्। पृथिवीन्द्रियादीनां रक्षणाय-इति दयानदभाष्ये, ऋ० १।१९।१ ॥
इस भाष्य को एडिट करें