Loading...
अथर्ववेद > काण्ड 6 > सूक्त 102

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 102/ मन्त्र 2
    सूक्त - जमदग्नि देवता - अश्विनौ छन्दः - अनुष्टुप् सूक्तम् - अभिसांमनस्य सूक्त

    आहं खि॑दामि ते॒ मनो॑ राजा॒श्वः पृ॒ष्ट्यामि॑व। रे॒ष्मच्छि॑न्नं॒ यथा॒ तृणं॒ मयि॑ ते वेष्टतां॒ मनः॑ ॥

    स्वर सहित पद पाठ

    आ । अ॒हम् । खि॒दा॒मि॒ । ते॒ । मन॑: । रा॒ज॒ऽअ॒श्व: । पृ॒ष्ट्याम्ऽइ॑व। रे॒ष्मऽछि॑न्नम् । यथा॑ । तृण॑म् । मयि॑ । ते॒ । वे॒ष्ट॒ता॒म् । मन॑: ॥१०२.२॥


    स्वर रहित मन्त्र

    आहं खिदामि ते मनो राजाश्वः पृष्ट्यामिव। रेष्मच्छिन्नं यथा तृणं मयि ते वेष्टतां मनः ॥

    स्वर रहित पद पाठ

    आ । अहम् । खिदामि । ते । मन: । राजऽअश्व: । पृष्ट्याम्ऽइव। रेष्मऽछिन्नम् । यथा । तृणम् । मयि । ते । वेष्टताम् । मन: ॥१०२.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 102; मन्त्र » 2

    टिप्पणीः - २−(अहम्) जितेन्द्रियः (आखिदामि) आकर्षामि (ते) तव (मनः) अन्तःकरणम् (राजाश्वः) अश्वमारोहतीति अश्वारूढः, स एव अश्वः। विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वक्तव्यः। वा० पा० ५।३।८३। इत्यारूढपदलोपः राजाश्वारूढः=राजाश्वः, कुशलोऽश्वारूढः (पृष्ट्याम्) पृषु सेचनहिंसासंक्लेशनेषु−क्तिन्, ततो यत्। पृष्टौ क्लेशसाधनाया रज्ज्वां भवरश्मिप्रग्रहम् (इव) यथा (रेष्मच्छिन्नम्) रिष हिंसायाम्−मनिन्। रेषकेण तीव्रवायुना भग्नम् (यथा) येन प्रकारेण (मयि) मम वशे (ते) तव (वेष्टताम्) आच्छाद्यताम् (मनः) ॥

    इस भाष्य को एडिट करें
    Top