Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 102/ मन्त्र 3
सूक्त - जमदग्नि
देवता - अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - अभिसांमनस्य सूक्त
आञ्ज॑नस्य म॒दुघ॑स्य॒ कुष्ठ॑स्य॒ नल॑दस्य च। तु॒रो भग॑स्य॒ हस्ता॑भ्यामनु॒रोध॑न॒मुद्भ॑रे ॥
स्वर सहित पद पाठआ॒ऽअञ्ज॑नस्य । म॒दुघ॑स्य । कुष्ठ॑स्य । नल॑दस्य । च॒ । तु॒र: । भग॑स्य । हस्ता॑भ्याम् । अ॒नु॒ऽरोध॑नम् । उत् । भ॒रे॒ ॥१०२.३॥
स्वर रहित मन्त्र
आञ्जनस्य मदुघस्य कुष्ठस्य नलदस्य च। तुरो भगस्य हस्ताभ्यामनुरोधनमुद्भरे ॥
स्वर रहित पद पाठआऽअञ्जनस्य । मदुघस्य । कुष्ठस्य । नलदस्य । च । तुर: । भगस्य । हस्ताभ्याम् । अनुऽरोधनम् । उत् । भरे ॥१०२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 102; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(आञ्जनस्य) अ० ४।९।३। आङ्+अञ्जू व्यक्तौ−ल्युट्। यथावत्संसारस्य व्यक्तीकारकस्य ब्रह्मणः (मदुघस्य) भृमृशीङ्०। उ० १।७। इति मद हर्षे−उ प्रत्ययः+घृ सेके भासे च−ड। हर्षसेचकस्य (कुष्ठस्य) अ० ५।४।१। कुष निष्कर्षे−क्थन्। गुणपरीक्षकस्य (नलदस्य) अ० ४।३७।३। णल बन्धने−अच्+दो अवखण्डने−क। बन्धनच्छेदकस्य (च) (तुरः) तुर त्वरणे−क्विप्। वरणशीलस्य (भगस्य) ऐश्वर्यवतो ब्रह्मणः (हस्ताभ्याम्) हस्तयोर्बलप्राप्तये (अनुरोधनम्) यथावत्पूजनम् (उत्) उत्कर्षेण (भरे) हृदये धरामि ॥
इस भाष्य को एडिट करें