Loading...
अथर्ववेद > काण्ड 6 > सूक्त 106

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 106/ मन्त्र 1
    सूक्त - प्रमोचन देवता - दूर्वा, शाला छन्दः - अनुष्टुप् सूक्तम् - दूर्वाशाला सूक्त

    आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहन्तु पु॒ष्पिणीः॑। उत्सो॑ वा॒ तत्र॒ जाय॑तां ह्र॒दो वा॑ पु॒ण्डरी॑कवान् ॥

    स्वर सहित पद पाठ

    आ॒ऽअय॑ने । ते॒ । प॒रा॒ऽअय॑ने । दूर्वा॑: । रो॒ह॒न्तु॒ । पु॒ष्पिणी॑: । उत्स॑: । वा॒ । तत्र॑ । जाय॑ताम् । ह्र॒द: । वा॒ । पु॒ण्डरी॑कऽवान् ॥१०६.१॥


    स्वर रहित मन्त्र

    आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः। उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान् ॥

    स्वर रहित पद पाठ

    आऽअयने । ते । पराऽअयने । दूर्वा: । रोहन्तु । पुष्पिणी: । उत्स: । वा । तत्र । जायताम् । ह्रद: । वा । पुण्डरीकऽवान् ॥१०६.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 106; मन्त्र » 1

    टिप्पणीः - १−(आयने) आङ्+इण् गतौ−ल्युट्। आगमने (ते) तव (परायणे) इण्−ल्युट्। बहिर्गमने (दूर्वाः) दूर्वी हिंसायाम्−अ। स्वनामख्यातघासाः। सहस्रवीर्याः। हरिताः (रोहन्तु) उद्भवन्तु (पुष्पिणीः) बहुपुष्पयुक्ताः (उत्सः) अ० १।१५।३। कूपः−निघ० ३।२३। (वा) चार्थे (तत्र) तस्मिन् देशे (जायताम्) वर्तताम् (ह्रदः) अगाधजलाशयः (पुण्डरीकवान्) फर्फरीकादयश्च। उ० ४।२०। इति पुडि खण्डने−यद्वा पुण शुभकर्मणि−ईकन्, उभयपक्षे पृषोदरादित्वात्साधुः। कमलैर्युक्तः ॥

    इस भाष्य को एडिट करें
    Top