Loading...
अथर्ववेद > काण्ड 6 > सूक्त 106

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 106/ मन्त्र 2
    सूक्त - प्रमोचन देवता - दूर्वाशाला छन्दः - अनुष्टुप् सूक्तम् - दूर्वाशाला सूक्त

    अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम्। मध्ये॑ ह्र॒दस्य॑ नो गृ॒हाः प॑रा॒चीना॒ मुखा॑ कृधि ॥

    स्वर सहित पद पाठ

    अ॒पाम् । इ॒दम् । नि॒ऽअय॑नम् । स॒मु॒द्रस्य॑ । नि॒ऽवेश॑नम् । मध्ये॑ । ह्र॒दस्य॑ । न॒: । गृ॒हा: । प॒रा॒चीना॑ । मुखा॑ । कृ॒धि॒ ॥१०६.२॥


    स्वर रहित मन्त्र

    अपामिदं न्ययनं समुद्रस्य निवेशनम्। मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि ॥

    स्वर रहित पद पाठ

    अपाम् । इदम् । निऽअयनम् । समुद्रस्य । निऽवेशनम् । मध्ये । ह्रदस्य । न: । गृहा: । पराचीना । मुखा । कृधि ॥१०६.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 106; मन्त्र » 2

    टिप्पणीः - २−(अपाम्) प्रजानाम्। आपः=आप्ताः प्रजाः−दयानन्दभाष्ये−यजु० ६।२७। (इदम्) (न्ययनम्) इण्−ल्युट्। निवासस्थानम् (समुद्रस्य) जलौघस्य (निवेशनम्) प्रवेशनम् (मध्ये) (ह्रदस्य) जलाशयस्य। परिखायाः (नः) अस्माकम् (गृहाः) गेहानि (पराचीना) प्रतिकूलानि (कृधि) कुरु ॥

    इस भाष्य को एडिट करें
    Top