Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 106/ मन्त्र 3
सूक्त - प्रमोचन
देवता - दूर्वाशाला
छन्दः - अनुष्टुप्
सूक्तम् - दूर्वाशाला सूक्त
हि॒मस्य॑ त्वा ज॒रायु॑णा॒ शाले॒ परि॑ व्ययामसि। शी॒तह्र॑दा॒ हि नो॒ भुवो॒ऽग्निष्कृ॑णोतु भेष॒जम् ॥
स्वर सहित पद पाठहि॒मस्य॑ । त्वा॒ । जरायु॑णा। शाले॑ । परि॑ । व्य॒या॒म॒सि॒ । शी॒तऽह्र॑दा । हि । न॒: । भुव॑: । अ॒ग्नि: । कृ॒णो॒तु॒ । भे॒ष॒जम् ॥१०६.३॥
स्वर रहित मन्त्र
हिमस्य त्वा जरायुणा शाले परि व्ययामसि। शीतह्रदा हि नो भुवोऽग्निष्कृणोतु भेषजम् ॥
स्वर रहित पद पाठहिमस्य । त्वा । जरायुणा। शाले । परि । व्ययामसि । शीतऽह्रदा । हि । न: । भुव: । अग्नि: । कृणोतु । भेषजम् ॥१०६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 106; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(हिमस्य) शीतस्य (त्वा) त्वाम् (जरायुणा) किंजरयोः श्रिणः। उ० १।४। इति जरा+इण् गतौ−ञुण्। जरामेति येन जरायुस्तेन वस्त्रेणाग्निना वा (शाले) हे गृह (परि) परितः (व्ययामसि) व्यय गतौ वित्तसमुत्सर्गे च। प्राप्नुमः (शीतह्रदा) शीतो ह्रद इव (हि) यस्मात् कारणात् (नः) अस्मभ्यम् (भुवः) त्वं भवेः (अग्निः) तापः (कृणोतु) करोतु (भेषजम्) भयनिवारकं कर्म ॥
इस भाष्य को एडिट करें