Loading...
अथर्ववेद > काण्ड 6 > सूक्त 107

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 107/ मन्त्र 1
    सूक्त - शन्ताति देवता - विश्वजित् छन्दः - अनुष्टुप् सूक्तम् - विश्वजित् सूक्त

    विश्व॑जित्त्रायमा॒णायै॑ मा॒ परि॑ देहि। त्राय॑माणे द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒द्यच्च॑ नः॒ स्वम् ॥

    स्वर सहित पद पाठ

    विश्व॑ऽजित् । त्रा॒य॒मा॒णायै॑ । मा॒ । परि॑ । दे॒हि॒ । त्राय॑माणे । द्वि॒ऽपात् । च॒ । सर्व॑म् । न॒: । रक्ष॑ । चतु॑:ऽपात् । यत् । च॒ । न॒: । स्वम् ॥१०७.१॥


    स्वर रहित मन्त्र

    विश्वजित्त्रायमाणायै मा परि देहि। त्रायमाणे द्विपाच्च सर्वं नो रक्ष चतुष्पाद्यच्च नः स्वम् ॥

    स्वर रहित पद पाठ

    विश्वऽजित् । त्रायमाणायै । मा । परि । देहि । त्रायमाणे । द्विऽपात् । च । सर्वम् । न: । रक्ष । चतु:ऽपात् । यत् । च । न: । स्वम् ॥१०७.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 107; मन्त्र » 1

    टिप्पणीः - १−(विश्वजित्) हे जगद्विजयिन् परमेश्वर (त्रायमाणायै) त्रैङ् पालने−शानच्। रक्षाशीलायै शालायै ओषधिविशेषायै वा (मा) माम् (परि देहि) समर्पय (त्रायमाणे) हे रक्षाशीले (द्विपात्) पादद्वयोपेतं मनुष्यादिकम् (सर्वम्) अखिलम् (नः) अस्माकम् (रक्ष) पालय (चतुष्पात्) गोमहिषादिकम् (यत्) यत्किञ्चित्सर्वम् (स्वम्) धनम् ॥

    इस भाष्य को एडिट करें
    Top