Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 107/ मन्त्र 3
सूक्त - शन्ताति
देवता - विश्वजित्
छन्दः - अनुष्टुप्
सूक्तम् - विश्वजित् सूक्त
विश्व॑जित्कल्या॒ण्यै मा॒ परि॑ देहि। कल्या॑णि द्वि॒पाच्च॒ सर्वं॑ नो॒ रक्ष॒ चतु॑ष्पा॒द्यच्च॑ नः॒ स्वम् ॥
स्वर सहित पद पाठविश्व॑ऽजित् । क॒ल्या॒ण्यै᳡। मा॒ । परि॑ । दे॒हि॒ । कल्या॑णि । द्वि॒ऽपात् । च॒ । सर्व॑म् । न॒: । रक्ष॑ । चतु॑:ऽपात् । यत् । च॒ । न॒: । स्वम् ॥१०७.३॥
स्वर रहित मन्त्र
विश्वजित्कल्याण्यै मा परि देहि। कल्याणि द्विपाच्च सर्वं नो रक्ष चतुष्पाद्यच्च नः स्वम् ॥
स्वर रहित पद पाठविश्वऽजित् । कल्याण्यै। मा । परि । देहि । कल्याणि । द्विऽपात् । च । सर्वम् । न: । रक्ष । चतु:ऽपात् । यत् । च । न: । स्वम् ॥१०७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 107; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(कल्याण्यै) कल्यं शुभम् अण्यते शब्द्यते। अकर्तरि च कारके०। [पा० ३।३।१९। कल+अण शब्दे जीवने च−घञ्, ङीप्। हे मङ्गलकारिणि शाले मासपर्णि वा। अन्यद्गतम् ॥
इस भाष्य को एडिट करें