अथर्ववेद - काण्ड 6/ सूक्त 108/ मन्त्र 2
मे॒धाम॒हं प्र॑थ॒मां ब्रह्म॑ण्वतीं॒ ब्रह्म॑जूता॒मृषि॑ष्टुताम्। प्रपी॑तां ब्रह्मचा॒रिभि॑र्दे॒वाना॒मव॑से हुवे ॥
स्वर सहित पद पाठमे॒धाम् । अ॒हम् । प्र॒थ॒माम् । ब्रह्म॑णऽवतीम् । ब्रह्म॑ऽजूताम् । ऋषि॑ऽस्तुताम् । प्रऽपी॑ताम् । ब्र॒ह्म॒चा॒रिऽभि॑: । दे॒वाना॑म् । अव॑से । हु॒वे॒ ॥१०८.२॥
स्वर रहित मन्त्र
मेधामहं प्रथमां ब्रह्मण्वतीं ब्रह्मजूतामृषिष्टुताम्। प्रपीतां ब्रह्मचारिभिर्देवानामवसे हुवे ॥
स्वर रहित पद पाठमेधाम् । अहम् । प्रथमाम् । ब्रह्मणऽवतीम् । ब्रह्मऽजूताम् । ऋषिऽस्तुताम् । प्रऽपीताम् । ब्रह्मचारिऽभि: । देवानाम् । अवसे । हुवे ॥१०८.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 108; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(मेधाम्) म० १। सत्यधारणावतीं बुद्धिं सम्पत्तिं वा (प्रथमाम्) श्रेष्ठाम् (ब्रह्मण्वतीम्) मादुपधायाश्च०। पा० ८।२।९। इति मतुपो वत्वम्। अपो नुट्। पा० ८।२।१६। इति नुडागमः। ब्रह्म−अन्नम्−निघ० २।७। धनम्−२।१०। ईश्वरवेदान्नधनैर्युक्ताम् (ब्रह्मजूताम्) जु गतौ प्रीतौ च−क्त। जूतिर्गतिः प्रीतिर्वा देवजूतं देवप्रीतं वा−निरु० १०।२८। ब्राह्मणैः प्राप्तां प्रीतां वा (ऋषिष्टुताम्) ऋषिः−अ० २।६।१। वेदार्थदर्शिभिर्मुनिभिः प्रशंसितम् (प्रपीताम्) प्रपूर्वात् पिबतेः−क्त, घुमास्था०। पा० ६।४।६६। ईत्वम्। कृतपानाम्। सेविताम् (ब्रह्मचारिभिः) ब्रह्म+चर−णिनि। वेदपाठिभिर्वीर्यनिग्रहीतृभिः (देवानाम्) दिव्यगुणानाम् (अवसे) रक्षणाय (हुवे) आह्वयामि ॥
इस भाष्य को एडिट करें