Loading...
अथर्ववेद > काण्ड 6 > सूक्त 108

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 108/ मन्त्र 3
    सूक्त - शौनक् देवता - मेधा छन्दः - पथ्याबृहती सूक्तम् - मेधावर्धन सूक्त

    यां मे॒धामृ॒भवो॑ वि॒दुर्यां मे॒धामसु॑रा वि॒दुः। ऋष॑यो भ॒द्रां मे॒धां यां वि॒दुस्तां मय्या वे॑शयामसि ॥

    स्वर सहित पद पाठ

    याम् । मे॒धाम् । ऋ॒भव॑: । वि॒दु: । याम् ।मे॒धाम् । असु॑रा: । वि॒दु: । ऋष॑य:। भ॒द्राम् । मे॒धाम् । याम् । वि॒दु: । ताम् । मयि॑ । आ । वे॒श॒या॒म॒सि॒ ॥१०८.३॥


    स्वर रहित मन्त्र

    यां मेधामृभवो विदुर्यां मेधामसुरा विदुः। ऋषयो भद्रां मेधां यां विदुस्तां मय्या वेशयामसि ॥

    स्वर रहित पद पाठ

    याम् । मेधाम् । ऋभव: । विदु: । याम् ।मेधाम् । असुरा: । विदु: । ऋषय:। भद्राम् । मेधाम् । याम् । विदु: । ताम् । मयि । आ । वेशयामसि ॥१०८.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 108; मन्त्र » 3

    टिप्पणीः - ३−(याम्) (मेधाम्) म० १। निश्चलां बुद्धिं सम्पत्तिं वा (ऋभवः) अ० १।२।३। ऋतेन भान्तीति वा−निरु० ११।१५। (विदुः) विदन्ति। जानन्ति (असुराः) प्रज्ञावन्तः−निरु० १०।३४। (ऋषयः) सन्मार्गदर्शकाः (भद्राम्) कल्याणीम्। वेदशास्त्रादिविषयाम् (मयि) आत्मनि (आ) समन्तात् (वेशयामसि) प्रवेशयामः। स्थापयामः ॥

    इस भाष्य को एडिट करें
    Top