अथर्ववेद - काण्ड 6/ सूक्त 108/ मन्त्र 1
त्वं नो॑ मेधे प्रथ॒मा गोभि॒रश्वे॑भि॒रा ग॑हि। त्वं सूर्य॑स्य र॒श्मिभि॒स्त्वं नो॑ असि य॒ज्ञिया॑ ॥
स्वर सहित पद पाठत्वम् । न॒: । मे॒धे॒ । प्र॒थ॒मा । गोभि॑: । अश्वे॑भि: । आ । ग॒हि॒ । त्वम् । सूर्य॑स्य । र॒श्मिऽभि॑: । त्वम् । न॒: । अ॒सि॒ । य॒ज्ञिया॑ ॥१०८.१॥
स्वर रहित मन्त्र
त्वं नो मेधे प्रथमा गोभिरश्वेभिरा गहि। त्वं सूर्यस्य रश्मिभिस्त्वं नो असि यज्ञिया ॥
स्वर रहित पद पाठत्वम् । न: । मेधे । प्रथमा । गोभि: । अश्वेभि: । आ । गहि । त्वम् । सूर्यस्य । रश्मिऽभि: । त्वम् । न: । असि । यज्ञिया ॥१०८.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 108; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(त्वम्) (नः) अस्मान् (मेधे) मिधृ मेधृ संगमे च, चकारात् हिंसामेधयोश्च−घञ्। मेधा धननाम−निघ० २।१०। मेधावी कस्मान्मेधया तद्वान् भवति मेधा मतौ धीयते−निरु० ३।१९। हे धारणावति बुद्धे हे धन (प्रथमा) प्रख्याता। मुख्या (गोभिः) गवादिपशुभिः (अश्वेभि) अश्वैः। अश्वादिवहनशीलैः (सूर्यस्य) प्रेरकस्य। आदित्यस्य (रश्मिभिः) व्यापनशीलैः। किरणैः (नः) अस्माकम् (असि) वर्तसे (यज्ञिया) यज्ञ−घ। यज्ञार्हा। पूजनीया ॥
इस भाष्य को एडिट करें