Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 11/ मन्त्र 3
सूक्त - प्रजापति
देवता - प्रजापत्यनुमतिः, सिनीवाली
छन्दः - अनुष्टुप्
सूक्तम् - पुंसवन सूक्त
प्र॒जाप॑ति॒रनु॑मतिः सिनीवा॒ल्य॑चीक्लृपत्। स्त्रैषू॑यम॒न्यत्र॒ दध॒त्पुमां॑समु दधदि॒ह ॥
स्वर सहित पद पाठप्र॒जाऽप॑ति: । अनु॑ऽमति: । सि॒नी॒वा॒ली । अ॒ची॒क्लृ॒प॒त् । स्रैसू॑यम् । अ॒न्यत्र॑ । दध॑त् । पुमां॑सम्। ऊं॒ इति॑ । द॒ध॒त्। इ॒ह ॥११.३॥
स्वर रहित मन्त्र
प्रजापतिरनुमतिः सिनीवाल्यचीक्लृपत्। स्त्रैषूयमन्यत्र दधत्पुमांसमु दधदिह ॥
स्वर रहित पद पाठप्रजाऽपति: । अनुऽमति: । सिनीवाली । अचीक्लृपत् । स्रैसूयम् । अन्यत्र । दधत् । पुमांसम्। ऊं इति । दधत्। इह ॥११.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 11; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(प्रजापतिः) प्रजापालिका शक्तिः परमेश्वरः (अनुमतिः) अनुकूलबुद्धियुक्ता (सिनीवाली) अ० २।२६।२। अन्नधर्त्री। अन्नवती (अचीक्लृपत्) कृपू सामर्थ्ये ण्यन्ताल्लुङि चङि रूपम्। समर्थमकरोत् (स्त्रैषूयम्) राजसूयसूर्य० पा० ३।१।११४। इति स्त्री+षूङ् प्रसवे−क्यप्। स्त्रीसूय−अण् सम्बन्धे। कन्याजन्मसम्बन्धि कर्म (अन्यत्र) अन्यप्रकारे। स्त्रीरजआधिक्ये (दधत्) दध धारणे−लडर्थे लेट् परस्मैपदं च छान्दसम्। ईश्वरो दधते स्थापयति (पुमांसम्) पुरुषसन्तानम् (उ) अवश्यम् (दधत्) (इह) अस्मिन्विधौ। पुरुषवीर्याधिक्ये ॥
इस भाष्य को एडिट करें