Loading...
अथर्ववेद > काण्ड 6 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 11/ मन्त्र 2
    सूक्त - प्रजापति देवता - रेतः छन्दः - अनुष्टुप् सूक्तम् - पुंसवन सूक्त

    पुं॒सि वै रेतो॑ भवति॒ तत्स्त्रि॒यामनु॑ षिच्यते। तद्वै पु॒त्रस्य॒ वेद॑नं॒ तत्प्र॒जाप॑तिरब्रवीत् ॥

    स्वर सहित पद पाठ

    पुं॒सि । वै। रेत॑: । भ॒व॒ति॒ । तत् । स्त्रि॒याम् । अनु॑ । सि॒च्य॒ते॒ । तत्। वै । पु॒त्रस्य॑ । वेद॑नम्। तत् । प्र॒जाऽप॑ति: । अ॒ब्र॒वी॒त् ॥११.२॥


    स्वर रहित मन्त्र

    पुंसि वै रेतो भवति तत्स्त्रियामनु षिच्यते। तद्वै पुत्रस्य वेदनं तत्प्रजापतिरब्रवीत् ॥

    स्वर रहित पद पाठ

    पुंसि । वै। रेत: । भवति । तत् । स्त्रियाम् । अनु । सिच्यते । तत्। वै । पुत्रस्य । वेदनम्। तत् । प्रजाऽपति: । अब्रवीत् ॥११.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 11; मन्त्र » 2

    टिप्पणीः - २−(पुंसि) अ० ३।६।१। रक्षणस्वभावे बलवति पुरुषे (वै) एव (रेतः) अ० २।२८।५। वीर्यम् (भवति) (तत्) रेतः (स्त्रियाम्) पत्न्याम् (अनु) आनुकूल्येन। यथाविधि (सिच्यते) सेचनं क्रियते (तत्) रेतःसेचनम् (वै) (पुत्रस्य) (वेदनम्) प्राप्तिकारणम् (प्रजापतिः) प्रजानां पालकः परमेश्वरः (अब्रवीत्) अकथयत् ॥

    इस भाष्य को एडिट करें
    Top