Loading...
अथर्ववेद > काण्ड 6 > सूक्त 110

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 110/ मन्त्र 1
    सूक्त - अथर्वा देवता - अग्निः छन्दः - पङ्क्तिः सूक्तम् - दीर्घायु सूक्त

    प्र॒त्नो हि कमीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑। स्वां चा॑ग्ने त॒न्वं पि॒प्राय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥

    स्वर सहित पद पाठ

    प्र॒त्न: । हि । कम् । ईड्य॑: । अ॒ध्व॒रेषु॑ । स॒नात् । च॒ । होता॑ । नव्य॑: । च॒ । स॒त्सि॒ । स्वाम् । च॒ । अ॒ग्ने॒ । त॒न्व᳡म् । प्रि॒प्राय॑स्व । अ॒स्मभ्य॑म् । च॒ । सौभ॑गम् । आ । य॒ज॒स्व॒ ॥११०.१॥


    स्वर रहित मन्त्र

    प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि। स्वां चाग्ने तन्वं पिप्रायस्वास्मभ्यं च सौभगमा यजस्व ॥

    स्वर रहित पद पाठ

    प्रत्न: । हि । कम् । ईड्य: । अध्वरेषु । सनात् । च । होता । नव्य: । च । सत्सि । स्वाम् । च । अग्ने । तन्वम् । प्रिप्रायस्व । अस्मभ्यम् । च । सौभगम् । आ । यजस्व ॥११०.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 110; मन्त्र » 1

    टिप्पणीः - १−(प्रत्नः) नश्च पुराणे प्रात्। वा० पा० ५।४।२५। इति प्र−तप्। प्रत्नः पुराणः−निरु० १२।३˜२। प्राचीनः। अनुभवी (हि) अवश्यम् (कम्) सुखेन (ईड्यः) स्तुत्यः (अध्वरेषु) अ० ३।१६।६। सन्मार्गदातृषु हिंसारहितेषु वा व्यवहारेषु (सनात्) सत्यम् (च) समुच्चये। अवधारणे (होता) दाता (नव्यः) अचो यत्। पा० १।३।९७। णु स्तुतौ−यत्। नूतनः। पुरुषार्थी (सत्सि) सीदसि (स्वाम्) स्वकीयाम् (अग्ने) हे विद्वन्। आचार्य (तन्वम्) शरीरम् (प्रिप्रायस्व) प्री प्रीतौ णिचि छान्दसं रूपम्। प्रसन्नां कुरु (अस्मभ्यम्) सेवकेभ्यः (सौभगम्) समूहे−अण्। बह्वैश्वर्याणां समूहम् (आ) आगत्य (यजस्व) देहि ॥

    इस भाष्य को एडिट करें
    Top