Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 110/ मन्त्र 2
ज्ये॑ष्ठ॒घ्न्यां जा॒तो वि॒चृतो॑र्य॒मस्य॑ मूल॒बर्ह॑णा॒त्परि॑ पाह्येनम्। अत्ये॑नं नेषद्दुरि॒तानि॒ विश्वा॑ दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥
स्वर सहित पद पाठज्ये॒ष्ठ॒ऽघ्न्याम् । जा॒त: । वि॒ऽचृतो॑: । य॒मस्य॑ । मू॒ल॒ऽबर्ह॑णात् । परि॑ । पा॒हि॒ । ए॒न॒म् । अति॑ । ए॒न॒म् । ने॒ष॒त् । दु॒:ऽइ॒तानि॑ । विश्वा॑ । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय ॥११०.२॥
स्वर रहित मन्त्र
ज्येष्ठघ्न्यां जातो विचृतोर्यमस्य मूलबर्हणात्परि पाह्येनम्। अत्येनं नेषद्दुरितानि विश्वा दीर्घायुत्वाय शतशारदाय ॥
स्वर रहित पद पाठज्येष्ठऽघ्न्याम् । जात: । विऽचृतो: । यमस्य । मूलऽबर्हणात् । परि । पाहि । एनम् । अति । एनम् । नेषत् । दु:ऽइतानि । विश्वा । दीर्घायुऽत्वाय । शतऽशारदाय ॥११०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 110; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(ज्येष्ठघ्न्याम्) बहुलं छन्दसि। पा० ३।२।८८। इति ज्येष्ठ+हन् गतौ−क्विप्। ऋन्नेभ्यो ङीप्। पा० ४।१।५। इति ङीप्। अल्लोपोऽनः। पा० ६।४।१३४। इत्यकारलोपः। ज्येष्ठं वृद्धतमं प्रशस्यतमं वा ब्रह्म हन्ति प्राप्नोति यया तस्यां क्रियायाम् (जातः) प्रसिद्धः (विचृतोः) अ० २।८।१। अन्धकाराद् विमोचयित्रोः सूर्याचन्द्रमसोः (यमस्य) नियमस्य (मूलबर्हणात्) बर्ह हिंसायाम्−ल्युट्। मूलच्छेदनात् (परि) सर्वतः (पाहि) रक्ष (एनम्) जीवम् (अति) अतीत्य (एनम्) प्राणिनम् (नेषत्) नयतु भवान् (दुरितानि) विघ्नान् (विश्वा) सर्वाणि (दीर्घायुत्वाय) चिरकालजीवनाय (शतशारदाय) अ० १।३५।१। शतसम्वत्सरयुक्ताय ॥
इस भाष्य को एडिट करें