Loading...
अथर्ववेद > काण्ड 6 > सूक्त 117

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 117/ मन्त्र 2
    सूक्त - कौशिक देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - आनृण्य सूक्त

    इ॒हैव सन्तः॒ प्रति॑ दद्म एनज्जी॒वा जी॒वेभ्यो॒ नि ह॑राम एनत्। अ॑प॒मित्य॑ धा॒न्य यज्ज॒घसा॒हमि॒दं तद॑ग्ने अनृ॒णो भ॑वामि ॥

    स्वर सहित पद पाठ

    इ॒ह । ए॒व । सन्त॑: । प्रति॑ । द॒द्म॒: । ए॒न॒त् । जी॒वा: । जी॒वेभ्य॑: । नि । ह॒रा॒म॒: । ए॒न॒त् । अ॒प॒ऽमित्य॑ । धा॒न्य᳡म् । यत् । ज॒घस॑ । अ॒हम् । इ॒दम् । तत् । अ॒ग्ने॒। अ॒नृ॒ण: । भ॒वा॒मि॒ ॥११७.२॥


    स्वर रहित मन्त्र

    इहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत्। अपमित्य धान्य यज्जघसाहमिदं तदग्ने अनृणो भवामि ॥

    स्वर रहित पद पाठ

    इह । एव । सन्त: । प्रति । दद्म: । एनत् । जीवा: । जीवेभ्य: । नि । हराम: । एनत् । अपऽमित्य । धान्यम् । यत् । जघस । अहम् । इदम् । तत् । अग्ने। अनृण: । भवामि ॥११७.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 117; मन्त्र » 2

    टिप्पणीः - २−(इह) अस्मिन् शरीरे (एव) (सन्तः) विद्यमाना वयम् (प्रति दद्मः) प्रत्यर्पयामः (एनत्) ऋणम् (जीवाः) जीवन्तो वयम् (नि) नियमेन (हरामः) प्रापयामः (एनत्) ऋणम् (अपमित्य) उदीचां माङो व्यतीहारे। पा० ३।४।१९। इति मेङ् प्रणिदाने−क्त्वा, ल्यबादेशे। मयतेरिदन्यतरस्याम् पा० ६।१।७१। इति। तुक्। ऋणे गृहीत्वा (धान्यम्) अन्नम् (जघस) अद भक्षणे, लिटि घस्लृ आदेशः। भक्षितवानस्मि (अहम्) (इदम्) इदानीम् (तत्) तस्मात् (अग्ने) विद्वन् (अनृणः) ऋणरहितः (भवामि) ॥

    इस भाष्य को एडिट करें
    Top