Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 117/ मन्त्र 3
अ॑नृ॒णा अ॒स्मिन्न॑नृ॒णाः पर॑स्मिन्तृ॒तीये॑ लो॒के अ॑नृ॒णाः स्या॑म। ये दे॑व॒यानाः॑ पितृ॒याणा॑श्च लो॒काः सर्वा॑न्प॒थो अ॑नृ॒णा आ क्षि॑येम ॥
स्वर सहित पद पाठअ॒नृ॒णा: । अ॒स्मिन् । अ॒नृ॒णा: । पर॑स्मिन् । तृ॒तीये॑ । लो॒के । अ॒नृ॒णा: । स्या॒म॒ । ये । दे॒व॒ऽयाना॑: । पि॒तृ॒ऽयाना॑: । च॒ । लो॒का: । सर्वा॑न् । प॒थ: । अ॒नृ॒णा: । आ । क्षि॒ये॒म॒ ॥११७.३॥
स्वर रहित मन्त्र
अनृणा अस्मिन्ननृणाः परस्मिन्तृतीये लोके अनृणाः स्याम। ये देवयानाः पितृयाणाश्च लोकाः सर्वान्पथो अनृणा आ क्षियेम ॥
स्वर रहित पद पाठअनृणा: । अस्मिन् । अनृणा: । परस्मिन् । तृतीये । लोके । अनृणा: । स्याम । ये । देवऽयाना: । पितृऽयाना: । च । लोका: । सर्वान् । पथ: । अनृणा: । आ । क्षियेम ॥११७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 117; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(अनृणाः) ऋणरहिताः (अस्मिन्) प्रथमे बाल्ये (परस्मिन्) द्वितीये यौवने (तृतीये) वार्द्धिके (लोके) लोकृ दर्शने, भाषायां, दीप्तौ च−घञ्। वयसि। समाजे (स्याम) भवेम (ये) (देवयानाः) अ० ३।१५।२। विजिगीषूणां व्यापारिणां विमानरथादीनां गमनयोग्याः (पितृयाणाः) पालकैर्विज्ञानिभिर्गमनीयाः (च) (लोकाः) धामानि। समाजाः (सर्वान्) लोकान् पथश्च (पथः) प्रथमायां द्वितीया। पन्थानः। मार्गाः (आसमन्तात्) (क्षियेम) क्षि निवासगत्योः। गच्छेम ॥
इस भाष्य को एडिट करें