Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 136/ मन्त्र 2
सूक्त - वीतहव्य
देवता - नितत्नीवनस्पतिः
छन्दः - एकावसाना द्विपदा साम्नी बृहती
सूक्तम् - केशदृंहण सूक्त
दृंह॑ प्र॒त्नान् ज॒नयाजा॑तान् जा॒तानु॒ वर्षी॑यसस्कृधि ॥
स्वर सहित पद पाठदृंह॑ । प्र॒त्नान् । ज॒नय॑ । अजा॑तान् । जा॒तान् । ऊं॒ इति॑ । वर्षी॑यस: । कृ॒धि॒ ॥१३६.२॥
स्वर रहित मन्त्र
दृंह प्रत्नान् जनयाजातान् जातानु वर्षीयसस्कृधि ॥
स्वर रहित पद पाठदृंह । प्रत्नान् । जनय । अजातान् । जातान् । ऊं इति । वर्षीयस: । कृधि ॥१३६.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 136; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(दृंह) दृढीकुरु (प्रत्नान्) पुरातनान् केशान् (जनय) उत्पादय (अजातान्) अनुत्पन्नान् (जातान्) (उ) अपि (वर्षीयसः) अ० ४।९।८। वृद्ध−ईयसुन्। प्रवृद्धतरान् (कृधि) कुरु ॥
इस भाष्य को एडिट करें