अथर्ववेद - काण्ड 6/ सूक्त 139/ मन्त्र 4
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - सौभाग्यवर्धन सूक्त
यथो॑द॒कमप॑पुषोऽप॒शुष्य॑त्या॒स्यम्। ए॒वा नि शु॑ष्य॒ मां कामे॒नाथो॒ शुष्का॑स्या चर ॥
स्वर सहित पद पाठयथा॑ । उ॒द॒कम् । अप॑पुष: । अ॒प॒ऽशुष्य॑ति । आ॒स्य᳡म् । ए॒व । नि । शु॒ष्य॒ । माम् । कामे॑न । अथो॒ इति॑ । शुष्क॑ऽआस्या । च॒र॒ ॥१३९.४॥
स्वर रहित मन्त्र
यथोदकमपपुषोऽपशुष्यत्यास्यम्। एवा नि शुष्य मां कामेनाथो शुष्कास्या चर ॥
स्वर रहित पद पाठयथा । उदकम् । अपपुष: । अपऽशुष्यति । आस्यम् । एव । नि । शुष्य । माम् । कामेन । अथो इति । शुष्कऽआस्या । चर ॥१३९.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 139; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(यथा) येन प्रकारेण (उदकम्) जलम् (अपपुषः) पा पाने−लिटः क्वसुः। अपीतवतस्तृषितस्य पुरुषस्य (अपशुष्यति) शुष्कं भवति (आस्यम्) मुखम् (एव) एवम्। अन्यद्गतम्−म० २ ॥
इस भाष्य को एडिट करें