अथर्ववेद - काण्ड 6/ सूक्त 139/ मन्त्र 1
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - त्र्यवसाना षट्पदा विराड्जगती
सूक्तम् - सौभाग्यवर्धन सूक्त
न्य॑स्ति॒का रु॑रोहिथ सुभगं॒कर॑णी॒ मम॑। श॒तं तव॑ प्रता॒नास्त्रय॑स्त्रिंशन्निता॒नाः। तया॑ सहस्रप॒र्ण्या हृद॑यं शोषयामि ते ॥
स्वर सहित पद पाठनि॒ऽअ॒स्ति॒का । रु॒रो॒हि॒थ॒ । सु॒भ॒ग॒म्ऽकर॑णी । मम॑ । श॒तम् । तव॑ । प्र॒ऽता॒ना: । त्रय॑:ऽत्रिंशत् । नि॒ऽता॒ना: । तया॑ । स॒ह॒स्र॒ऽप॒र्ण्या । हृद॑यम् । शो॒ष॒या॒मि॒ । ते॒ ॥१३९.१॥
स्वर रहित मन्त्र
न्यस्तिका रुरोहिथ सुभगंकरणी मम। शतं तव प्रतानास्त्रयस्त्रिंशन्नितानाः। तया सहस्रपर्ण्या हृदयं शोषयामि ते ॥
स्वर रहित पद पाठनिऽअस्तिका । रुरोहिथ । सुभगम्ऽकरणी । मम । शतम् । तव । प्रऽताना: । त्रय:ऽत्रिंशत् । निऽताना: । तया । सहस्रऽपर्ण्या । हृदयम् । शोषयामि । ते ॥१३९.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 139; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(न्यस्तिका) वृतेस्तिकन्। उ० ३।१४६। नि+अस दीप्तौ−तिकन्। नितरां दीप्यमाना विद्या (रुरोहिथ) प्रादुर्बभूविथ (सुभगंकरणी) आढ्यसुभग०। पा० ३।२।५६। इति करोतेः ख्युन्। खित्यनव्ययस्य। पा० ६।३।६६। इति पूर्वपदस्य मुम्। टिड्ढाणञ्०। पा० ४।१।१५। इति ङीप्। सौभाग्यं कुर्वती (मम) (शतम्) बहु (तव) (प्रतानाः) प्रकृष्टविस्ताराः (त्रयस्त्रिंशत्) एतत्संख्यानां देवानामुपकारकत्वात् तत्संख्या (नितानाः) नियमितविस्ताराः (तया) (सहस्रपर्ण्या) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। इति पॄ पालनपूरणयोः−न। बहुपालनशक्त्या विद्यया (हृदयम्) (शोषयामि) परितप्तं प्रेममग्नं करोमि (ते) तव ॥
इस भाष्य को एडिट करें