अथर्ववेद - काण्ड 6/ सूक्त 138/ मन्त्र 5
सूक्त - अथर्वा
देवता - नितत्नीवनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - क्लीबत्व सूक्त
यथा॑ न॒डं क॒शिपु॑ने॒ स्त्रियो॑ भि॒न्दन्त्यश्म॑ना। ए॒वा भि॑नद्मि ते॒ शेपो॒ऽमुष्या॒ अधि॑ मु॒ष्कयोः॑ ॥
स्वर सहित पद पाठयथा॑ । न॒डम् । क॒शिपु॑ने । स्रिय॑: । भि॒न्दन्ति॑ । अश्म॑ना । ए॒व । भि॒न॒द्मि॒ । ते॒ । शेप॑: । अ॒मुष्या॑: । अधि॑ । मु॒ष्कयो॑: ॥१३८.५॥
स्वर रहित मन्त्र
यथा नडं कशिपुने स्त्रियो भिन्दन्त्यश्मना। एवा भिनद्मि ते शेपोऽमुष्या अधि मुष्कयोः ॥
स्वर रहित पद पाठयथा । नडम् । कशिपुने । स्रिय: । भिन्दन्ति । अश्मना । एव । भिनद्मि । ते । शेप: । अमुष्या: । अधि । मुष्कयो: ॥१३८.५॥
अथर्ववेद - काण्ड » 6; सूक्त » 138; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(यथा) येन प्रकारेण (नडम्) तृणम् (कशिपुने) मृगय्वादयश्च। उ० १।३७। इति कश गतिशासनयोः−कु, निपातनात् साधुः। अन्नाय वस्त्राय वा−अमर० २३।१३०। (स्त्रियः) (भिन्दन्ति) आघ्नन्ति (अश्मना) पाषाणेन (एव) एवम् (भिनद्मि) (ते) तुभ्यम् (शेपः) रोगबलम् (अमुष्याः) तस्या नीरोगाया नाड्याः (अधि) अधिकृत्य (मुष्कयोः) अण्डकोशयोः ॥
इस भाष्य को एडिट करें