अथर्ववेद - काण्ड 6/ सूक्त 139/ मन्त्र 3
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - सौभाग्यवर्धन सूक्त
सं॒वन॑नी समुष्प॒ला बभ्रु॒ कल्या॑णि॒ सं नु॑द। अ॒मूं च॒ मां च॒ सं नु॑द समा॒नं हृद॑यं कृधि ॥
स्वर सहित पद पाठस॒म्ऽवन॑नी । स॒म्ऽउ॒ष्प॒ला । बभ्रु॑ । कल्या॑णि । सम् । नु॒द॒ । अ॒मूम् । च॒ । माम् । च॒ । सम् । नु॒द॒ । स॒मा॒नम् । हृद॑यम् । कृ॒धि॒ ॥१३९.३॥
स्वर रहित मन्त्र
संवननी समुष्पला बभ्रु कल्याणि सं नुद। अमूं च मां च सं नुद समानं हृदयं कृधि ॥
स्वर रहित पद पाठसम्ऽवननी । सम्ऽउष्पला । बभ्रु । कल्याणि । सम् । नुद । अमूम् । च । माम् । च । सम् । नुद । समानम् । हृदयम् । कृधि ॥१३९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 139; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(संवननी) सम्यक् सेवनीया (समुष्पला) वस निवासे−क्विप्। वचिस्वपियजादीनां किति। पा० ६।१।१५। इति सम्प्रसारणम्। शासिवसिघसीनां च। पा० ८।३।६०। इति षत्वम्। पल गतौ रक्षणे−अच्, टाप्। सम्यग् उषो गृहस्य पला पालयित्री विद्या (बभ्रु) अ० ४।२९।२। डुभृञ् कु, ऊङ्। अम्बार्थनद्योर्ह्रस्वः। पा० ७।३।१०७। इति ह्रस्वः। हे पालनशीले (कल्याणि) हे मङ्गलकारिणि विद्ये (सम्) संयोज्य (नुद) प्रवर्तय (अमूम्) विदुषीम् (च) (माम्) विद्वांसम् (समानम्) एकम् (हृदयम्) (कृधि) ॥
इस भाष्य को एडिट करें