Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 17/ मन्त्र 2
सूक्त - अथर्वा
देवता - गर्भदृंहणम्, पृथिवी
छन्दः - अनुष्टुप्
सूक्तम् - गर्भदृंहण सूक्त
यथे॒यं पृ॑थि॒वी म॒ही दा॒धारे॒मान्वन॒स्पती॑न्। ए॒वा ते॑ ध्रियतां॒ गर्भो॒ अनु॒ सूतुं॒ सवि॑तवे ॥
स्वर सहित पद पाठयथा॑ । इ॒यम् । पृ॒थि॒वी । म॒ही । दा॒धार॑ । इ॒मान् । वन॒स्पती॑न् । ए॒व । ते॒ । ध्रि॒य॒ता॒म् । गर्भ॑: । अनु॑ । सूतु॑म् । सवि॑तवे ॥१७.२॥
स्वर रहित मन्त्र
यथेयं पृथिवी मही दाधारेमान्वनस्पतीन्। एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥
स्वर रहित पद पाठयथा । इयम् । पृथिवी । मही । दाधार । इमान् । वनस्पतीन् । एव । ते । ध्रियताम् । गर्भ: । अनु । सूतुम् । सवितवे ॥१७.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 17; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(दाधार) धृतवती (इमान्) परिदृश्यमानान् (वनस्पतीन्) अ० १।१२।३। सेवकानां रक्षकान् वृक्षान्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें