Loading...
अथर्ववेद > काण्ड 6 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 17/ मन्त्र 1
    सूक्त - अथर्वा देवता - गर्भदृंहणम्, पृथिवी छन्दः - अनुष्टुप् सूक्तम् - गर्भदृंहण सूक्त

    यथे॒यं पृ॑थि॒वी म॒ही भू॒तानां॒ गर्भ॑माद॒धे। ए॒वा ते॑ ध्रियतां॒ गर्भो॒ अनु॒ सूतुं॒ सवि॑तवे ॥

    स्वर सहित पद पाठ

    यथा॑ । इ॒यम् । पृ॒थि॒वी । म॒ही । भू॒ताना॑म्। गर्भ॑म् । आ॒ऽद॒धे ।ए॒व । ते॒ । ध्रि॒य॒ता॒म् । गर्भ॑: । अनु॑ । सूतु॑म् । सवि॑तवे ॥१७.१॥


    स्वर रहित मन्त्र

    यथेयं पृथिवी मही भूतानां गर्भमादधे। एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥

    स्वर रहित पद पाठ

    यथा । इयम् । पृथिवी । मही । भूतानाम्। गर्भम् । आऽदधे ।एव । ते । ध्रियताम् । गर्भ: । अनु । सूतुम् । सवितवे ॥१७.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 17; मन्त्र » 1

    टिप्पणीः - १−(यथा) येन प्रकारेण (इयम्) परिदृश्यमाना (पृथिवी) (मही) विशाला (भूतानाम्) पृथिव्यादिपञ्चभूतानाम् (गर्भम्) अ० ३।१०।१२। स्तुत्यं बालकम् (आदधे) सम्यम् धृतवती (एव) एवम् (ते) तव (ध्रियताम्) गर्भाशये धृतः स्थिरो भवतु (गर्भः) (अनु) आनुकूल्येन (सूतुम्) पः किच्च। उ० १।७१। इति षूङ् प्राणिगर्भविमोचने−तुन् कित्। सूनुं संतानम् (सवितवे) षूङ्−तुमर्थे तवे प्रत्ययः। प्रसवितुं प्रजनयितुम् ॥

    इस भाष्य को एडिट करें
    Top