Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 21/ मन्त्र 2
सूक्त - शन्ताति
देवता - चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - केशवर्धनी ओषधि सूक्त
श्रेष्ठ॑मसि भेष॒जानां॒ वसि॑ष्ठं॒ वीरु॑धानाम्। सोमो॒ भग॑ इव॒ यामे॑षु दे॒वेषु॒ वरु॑णो॒ यथा॑ ॥
स्वर सहित पद पाठश्रेष्ठ॑म् । अ॒सि॒ । भे॒ष॒जाना॑म् । वसि॑ष्ठम् । वीरु॑धानाम् । सोम॑: । भग॑:ऽइव । यामे॑षु । दे॒वेषु॑ । वरु॑ण: । यथा॑ ॥२१.२॥
स्वर रहित मन्त्र
श्रेष्ठमसि भेषजानां वसिष्ठं वीरुधानाम्। सोमो भग इव यामेषु देवेषु वरुणो यथा ॥
स्वर रहित पद पाठश्रेष्ठम् । असि । भेषजानाम् । वसिष्ठम् । वीरुधानाम् । सोम: । भग:ऽइव । यामेषु । देवेषु । वरुण: । यथा ॥२१.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 21; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(श्रेष्ठम्) प्रशस्यतमम् (असि) (भेषजानाम्) भयनाशकानां पदार्थानां मध्ये (वसिष्ठम्) अ० ४।२९।३। वसुमत्तमम्। अतिशयेन धनयुक्तम्। वस्तृतमम् (वीरुधानाम्) अ० १।३२।१। वि+रुह प्रादुर्भावे−क्विप्, टाप्। विरोहणशीलानां प्रजानां मध्ये (सोमः) चन्द्रमाः (भगः) भगवान्। ऐश्वर्यवान् (इव) यथा (यामेषु) या गतौ−मन्। गन्तृषु नक्षत्रेषु (देवेषु) प्रकाशमानेषु पदार्थेषु (वरुणः) अन्धकारनिवारकः सूर्यः ॥
इस भाष्य को एडिट करें