Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 21/ मन्त्र 3
सूक्त - शन्ताति
देवता - चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - केशवर्धनी ओषधि सूक्त
रेव॑ती॒रना॑धृषः सिषा॒सवः॑ सिषासथ। उ॒त स्थ के॑श॒दृंह॑णी॒रथो॑ ह केश॒वर्ध॑नीः ॥
स्वर सहित पद पाठरेव॑ती: । अना॑धृष: । सि॒सा॒सव॑: । सि॒सा॒स॒थ॒ । उ॒त । स्थ । के॒श॒ऽदृंह॑णी:। अथो॒ इति॑ । ह॒ । के॒श॒ऽवर्ध॑नी ॥२१.३॥
स्वर रहित मन्त्र
रेवतीरनाधृषः सिषासवः सिषासथ। उत स्थ केशदृंहणीरथो ह केशवर्धनीः ॥
स्वर रहित पद पाठरेवती: । अनाधृष: । सिसासव: । सिसासथ । उत । स्थ । केशऽदृंहणी:। अथो इति । ह । केशऽवर्धनी ॥२१.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 21; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(रेवतीः) अ० ३।४।७। रेवत्यः। रयिमत्यः। विद्यासुवर्णादिधनयुक्ताः (अनाधृषः) धृष हिंसाक्रोधाभिभवेषु−क्विप्। सर्वतोऽहिंसिकाः (सिषासवः) षणु दाने वा षण सम्भक्तौ−सनि−उ प्रत्ययः। सनीवन्तर्धभ्रस्ज०। पा० ७।२।४९। इति इटो विकल्पनाद् अभावपक्षे जनसनखनां। पा० ६।४।४२। इत्यात्वम्। सनितुं दातुं सेवितुं वेच्छवः (सिषासथ) लोडर्थे लट्। सेवितुमिच्छत (उत) अप्यर्थे (स्थ) भवथ (केशदृंहणीः) केश+दृहि वृद्धौ−ल्युट्, ङीप्। केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद्वा प्रकाशनाद्वा−निरु० १२।२५। प्रकाशस्य दृढकारिण्यः (अथो) अपि च (ह) खलु (केशवर्धनीः) प्रकाशस्य वर्धयित्र्यः ॥
इस भाष्य को एडिट करें