Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 22/ मन्त्र 1
सूक्त - शन्ताति
देवता - आदित्यरश्मिः
छन्दः - त्रिष्टुप्
सूक्तम् - भैषज्य सूक्त
कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा॑ना॒ दिव॒मुत्प॑तन्ति। त आव॑वृत्र॒न्त्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वीं व्यू॑दुः ॥
स्वर सहित पद पाठकृ॒ष्णम् । नि॒ऽयान॑म् । हर॑य: । सु॒ऽप॒र्णा: । अ॒प: । वसा॑ना: । दिव॑म् । उत् । प॒त॒न्ति॒ । ते । आ । अ॒व॒वृ॒त्र॒न् । सद॑नात् । ऋ॒तस्य॑ । आत् । इत् । घृ॒तेन॑ । पृ॒थि॒वीम् । वि । ऊ॒दु॒: ॥२२.१॥
स्वर रहित मन्त्र
कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति। त आववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥
स्वर रहित पद पाठकृष्णम् । निऽयानम् । हरय: । सुऽपर्णा: । अप: । वसाना: । दिवम् । उत् । पतन्ति । ते । आ । अववृत्रन् । सदनात् । ऋतस्य । आत् । इत् । घृतेन । पृथिवीम् । वि । ऊदु: ॥२२.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 22; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(कृष्णम्) आकर्षकम् (नियानम्) नित्यगमनस्थानम् अन्तरिक्षं प्रति। अत्यन्तसंयोगे द्वितीया (हरयः) रसं हरन्तः (सुपर्णाः) आदित्यरश्मयः−निरु० ७।२४। (अपः) जलानि (वसानाः) आच्छादयन्तः (दिवम्) प्रकाशमयं सूर्यमण्डलम् (उत्) उद्गत्य (पतन्ति) प्राप्नुवन्ति (ते) रश्मयः (आ अववृत्रन्) वृतेर्लुङि। द्युद्भ्यो लुङि। पा० १।३।९१। इति परस्मैपदम्, च्लेश्चङ् रुडागमश्च छान्दसः। आ वर्तन्ते। आगच्छन्ति (सदनात्) गृहात्। सूर्यमण्डलात् (ऋतस्य) उदकस्य−निघ० १।१२। (आत्) अनन्तरम् (इत्) एव (घृतेन) उदकेन। घृतमित्युदकनाम जिघर्तेः सिञ्चतिकर्मणः−निरु० ७।२४। (पृथिवीम्) भूमिम् (वि) विविधम् (ऊदुः) उन्दी क्लेदने, लिट्, उपधालोपश्च छान्दसः। उन्दांचक्रुः। सिक्तवन्तः ॥
इस भाष्य को एडिट करें