Loading...
अथर्ववेद > काण्ड 6 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 22/ मन्त्र 3
    सूक्त - शन्ताति देवता - मरुद्गणः छन्दः - त्रिष्टुप् सूक्तम् - भैषज्य सूक्त

    उ॑द॒प्रुतो॑ म॒रुत॒स्ताँ इ॑यर्त वृ॒ष्टिर्या विश्वा॑ नि॒वत॑स्पृ॒णाति॑। एजा॑ति॒ ग्लहा॑ क॒न्ये॑व तु॒न्नैरुं॑ तुन्दा॒ना पत्ये॑व जा॒या ॥

    स्वर सहित पद पाठ

    उ॒द॒ऽप्रुत॑: । म॒रुत॑: । तान् । इ॒य॒र्त॒ । वृ॒ष्टि: । या । विश्वा॑: । नि॒ऽवत॑: । पृ॒णाति॑ । एजा॑ति । ग्लहा॑ । क॒न्या᳡ऽइव । तु॒न्ना । एरु॑म्। तु॒न्दा॒ना । पत्या॑ऽइव । जा॒या ॥२२.३॥


    स्वर रहित मन्त्र

    उदप्रुतो मरुतस्ताँ इयर्त वृष्टिर्या विश्वा निवतस्पृणाति। एजाति ग्लहा कन्येव तुन्नैरुं तुन्दाना पत्येव जाया ॥

    स्वर रहित पद पाठ

    उदऽप्रुत: । मरुत: । तान् । इयर्त । वृष्टि: । या । विश्वा: । निऽवत: । पृणाति । एजाति । ग्लहा । कन्याऽइव । तुन्ना । एरुम्। तुन्दाना । पत्याऽइव । जाया ॥२२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 22; मन्त्र » 3

    टिप्पणीः - ३−(उदप्रुतः) उदकस्योदः संज्ञायाम्। प० ६।३।५७। इति उदकस्य उदभावः। प्रुङ् गतौ−क्विप्। जलस्य प्रेरकाः (मरुतः) हे वायुगणाः (तान्) छान्दसो मकारस्य नकारः। ताम्। वृष्टिम् (इयर्त) ऋ गतौ−तप्तनप्तनथनाश्च। पा० ७।१।४५। इति लोटि तस्य तप्। अर्तिपिपर्त्योश्च पा० ७।४।७७। इति अभ्यासभ्य इत्वम्। इयृत। प्रेरयत (वृष्टिः) वर्षणम् (या) (विश्वाः) सर्वाः (निवतः) उपसर्गाच्छन्दसि धात्वर्थे। पा० ५।१।११८। इति गमेरर्थे वतिः। निम्नगतान् देशान् (पृणाति) पॄ पालनपूर्त्योः। पूरयति (एजाति) एजृ कम्पने−लडर्थे लेट्। एजति, गतिकर्मा−निघ० २।१४। गच्छति। प्राप्नोति (ग्लहा) अ० ४।३८।३। ग्रह उपादाने अप्, रस्य लः, टाप्। ग्राह्या वृष्टिः (कन्या) अ० १।१४।२। कमनीया। पुत्री (इव) यथा (तुन्ना) तुद व्यथने−क्तः। व्यथिता (एरुम्) मीपीभ्यां रुः। उ० ४।१०१। इति इण् गतौ−रु। गन्तारम्। समुद्रम् (तुन्दाना) तुद व्यथने−शानच्, नुम् गुणाभावश्च। व्यथ्यमाना (पत्या) सुपां सुलुक्०। पा० ७।१।३९। इति अम् विभक्तेः आ। पतिम् (इव) (जाया) अ० ३।४।३। भार्या ॥

    इस भाष्य को एडिट करें
    Top