Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 23/ मन्त्र 2
सूक्त - शन्ताति
देवता - आपः
छन्दः - त्रिपदा गायत्री
सूक्तम् - अपांभैषज्य सूक्त
ओता॒ आपः॑ कर्म॒ण्या॑ मु॒ञ्चन्त्वि॒तः प्रणी॑तये। स॒द्यः कृ॑ण्व॒न्त्वेत॑वे ॥
स्वर सहित पद पाठआऽउ॑ता: । आप॑: । क॒र्म॒ण्या᳡: । मु॒ञ्चन्तु॑ । इ॒त: । प्रऽनी॑तये । स॒द्य: । कृ॒ण्व॒न्तु॒ । एत॑वे ॥२३.२॥
स्वर रहित मन्त्र
ओता आपः कर्मण्या मुञ्चन्त्वितः प्रणीतये। सद्यः कृण्वन्त्वेतवे ॥
स्वर रहित पद पाठआऽउता: । आप: । कर्मण्या: । मुञ्चन्तु । इत: । प्रऽनीतये । सद्य: । कृण्वन्तु । एतवे ॥२३.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 23; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(ओताः) आङ्+वेञ् तन्तुसन्ताने−क्त। सम्यक् स्यूताः (आपः) परमेश्वरस्य व्यापिकाः शक्तयः (कर्मण्याः) तत्र साधुः। पा० ४।४।९८। इति कर्मन्−यत्। ये चाभावकर्मणोः। पा० ६।४।१६८। इति प्रकृतिभावः। कर्मसु साधवः (मुञ्चन्तु) मुक्तान् कुर्वन्तु, अस्मान् (इतः) अस्मात् कष्टात् (प्रणीतये) प्रकृष्टनीतिप्राप्तये (सद्यः) शीघ्रम् (कृण्वन्तु) कुर्वन्तु (एतवे) तुमर्थे सेसेन०। पा० ३।४।९। इति इण् गतौ, तवे। गन्तुम् ॥
इस भाष्य को एडिट करें