Loading...
अथर्ववेद > काण्ड 6 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 23/ मन्त्र 3
    सूक्त - शन्ताति देवता - आपः छन्दः - परोष्णिक् सूक्तम् - अपांभैषज्य सूक्त

    दे॒वस्य॑ सवि॒तुः स॒वे कर्म॑ कृण्वन्तु॒ मानु॑षाः। शं नो॑ भवन्त्व॒प ओष॑धीः शि॒वाः ॥

    स्वर सहित पद पाठ

    दे॒वस्य॑ । स॒वि॒तु: । स॒वे । कर्म॑ । कृ॒ण्व॒न्तु॒ । मानु॑षा: । शम् । न: । भ॒व॒न्तु॒ । अप: । ओष॑धी: । शिवा: ॥२३.३॥


    स्वर रहित मन्त्र

    देवस्य सवितुः सवे कर्म कृण्वन्तु मानुषाः। शं नो भवन्त्वप ओषधीः शिवाः ॥

    स्वर रहित पद पाठ

    देवस्य । सवितु: । सवे । कर्म । कृण्वन्तु । मानुषा: । शम् । न: । भवन्तु । अप: । ओषधी: । शिवा: ॥२३.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 23; मन्त्र » 3

    टिप्पणीः - ३−(देवस्य) प्रकाशस्वरूपस्य (सवितुः) सर्वप्रेरकस्य परमेश्वरस्य (सवे) प्रेरणे। शासने (कृण्वन्तु) अनुतिष्ठन्तु (मानुषाः) मनुष्याः (शम्) शान्त्या (नः) अस्माकम् (भवन्तु) भू प्राप्तौ। प्राप्नुवन्तु (अपः) म० १। कर्म−निघ० २।१। (ओषधीः) ओषधयः। अन्नादिपदार्थाः (शिवाः) कल्याणकारिण्यः ॥

    इस भाष्य को एडिट करें
    Top