Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 24/ मन्त्र 2
यन्मे॑ अ॒क्ष्योरा॑दि॒द्योत॒ पार्ष्ण्योः॒ प्रप॑दोश्च॒ यत्। आप॒स्तत्सर्वं॒ निष्क॑रन्भि॒षजां॒ सुभि॑षक्तमाः ॥
स्वर सहित पद पाठयत् । मे॒ । अ॒क्ष्यो: । आ॒ऽदि॒द्योत॑ । पार्ष्ण्यो॑: । प्रऽप॑दो: । च॒ । यत् । आप॑: । तत् । सर्व॑म् । नि: । क॒र॒न् । भि॒षजा॑म् । सुभि॑षक्ऽतमा: ॥२४.२॥
स्वर रहित मन्त्र
यन्मे अक्ष्योरादिद्योत पार्ष्ण्योः प्रपदोश्च यत्। आपस्तत्सर्वं निष्करन्भिषजां सुभिषक्तमाः ॥
स्वर रहित पद पाठयत् । मे । अक्ष्यो: । आऽदिद्योत । पार्ष्ण्यो: । प्रऽपदो: । च । यत् । आप: । तत् । सर्वम् । नि: । करन् । भिषजाम् । सुभिषक्ऽतमा: ॥२४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 24; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(यत्) दुःखम् (मे) मम (अक्ष्योः) अ० २।३३।१। अक्ष्णोः (आदिद्योत) द्युत दीप्तौ लिटि छान्दसं परस्मैपदम्। आदिद्युते। समन्ताद् दिदीपे (पार्ष्ण्योः) अ० २।३३।५। गुल्फस्याधोभागयोः (प्रपदोः) अ० २।३३।५। पादस्य पद्भावः। पादाग्रभागयोः (च) (यत्) (आपः) व्यापिकाः परमेश्वरशक्तयो जलधारा वा (तत्) सर्वम्। सकलं दुःखम् (निष्करन्) अ० २।९।५। लेटि रूपम्। इदुदुपधस्य०। पा० ८।३।४१। इति षत्वम्। बहिष्कुर्वन्तु (भिषजाम्) वैद्यानां मध्ये (सुभिषक्तमाः) अतिशयेन पूजनीया वैद्यरूपाः ॥
इस भाष्य को एडिट करें