Loading...
अथर्ववेद > काण्ड 6 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 24/ मन्त्र 3
    सूक्त - शन्ताति देवता - आपः छन्दः - अनुष्टुप् सूक्तम् - अपांभैषज्य सूक्त

    सि॑न्धुपत्नीः॒ सिन्धु॑राज्ञीः॒ सर्वा॒ या न॒द्य स्थन॑। द॒त्त न॒स्तस्य॑ भेष॒जं तेना॑ वो भुनजामहै ॥

    स्वर सहित पद पाठ

    सिन्धु॑ऽपत्नी: । सिन्धु॑ऽराज्ञी: । सर्वा॑: । या: । न॒द्य᳡: । स्थन॑ । द॒त्त । न॒: । तस्य॑ । भे॒ष॒जम् । तेन॑ । व॒: । भु॒न॒जा॒म॒है॒ ॥२४.३॥


    स्वर रहित मन्त्र

    सिन्धुपत्नीः सिन्धुराज्ञीः सर्वा या नद्य स्थन। दत्त नस्तस्य भेषजं तेना वो भुनजामहै ॥

    स्वर रहित पद पाठ

    सिन्धुऽपत्नी: । सिन्धुऽराज्ञी: । सर्वा: । या: । नद्य: । स्थन । दत्त । न: । तस्य । भेषजम् । तेन । व: । भुनजामहै ॥२४.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 24; मन्त्र » 3

    टिप्पणीः - ३−(सिन्धुपत्नीः) विभाषा सपूर्वस्य। पा० ४।१।३४। इति ङीप् नकारौ। सिन्धौः स्यन्दनशीलस्य संसारस्य समुद्रस्य वा पत्न्यः पालयित्र्यः (सिन्धुराज्ञीः) सिन्धोः स्यन्दशीलस्य जगतो राज्ञः शासिकाः, यद्वा समुद्रस्य राजयित्र्यः शोभयित्र्यः (सर्वाः) (याः) (नद्यः) णद भाषायां चुरा०−अच्, नदतेः स्तुतिकर्मणः−निरु० ५।२। स्त्रोत्र्यः परमेश्वरस्य जलप्रवाहाः (स्थन) तप्तनप्तनथनाश्च। पा० ७।१। भवथ (दत्त) प्रयच्छत (नः) अस्मभ्यम् (तस्य) तर्द हिंसायाम्। रोगस्य (भेषजम्) औषधम् (तेन) (वः) युष्माकं गुणान् (भुनजामहै) भुज पालनाभ्यवहारयोः। भुजोऽनवने। पा० १।३।६६। इत्यात्मनेपदम्। उपजीवाम ॥

    इस भाष्य को एडिट करें
    Top