Loading...
अथर्ववेद > काण्ड 6 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 30/ मन्त्र 2
    सूक्त - उपरिबभ्रव देवता - शमी छन्दः - त्रिष्टुप् सूक्तम् - पापशमन सूक्त

    यस्ते॒ मदो॑ऽवके॒शो वि॑के॒शो येना॑भि॒हस्यं॒ पुरु॑षं कृ॒णोषि॑। आ॒रात्त्वद॒न्या वना॑नि वृक्षि॒ त्वं श॑मि श॒तव॑ल्शा॒ वि रो॑ह ॥

    स्वर सहित पद पाठ

    य:। ते॒ । मद॑: । अ॒व॒ऽके॒श: । वि॒ऽके॒श: । येन॑ । अ॒भि॒ऽहस्य॑म् । पुरु॑षम् । कृ॒णोषि॑ । आ॒रात् । त्वत् । अ॒न्या । वना॑नि । वृ॒क्षि॒ । त्वम् । श॒मि॒ । श॒तऽव॑ल्शा । वि । रो॒ह॒ ॥३०.२॥


    स्वर रहित मन्त्र

    यस्ते मदोऽवकेशो विकेशो येनाभिहस्यं पुरुषं कृणोषि। आरात्त्वदन्या वनानि वृक्षि त्वं शमि शतवल्शा वि रोह ॥

    स्वर रहित पद पाठ

    य:। ते । मद: । अवऽकेश: । विऽकेश: । येन । अभिऽहस्यम् । पुरुषम् । कृणोषि । आरात् । त्वत् । अन्या । वनानि । वृक्षि । त्वम् । शमि । शतऽवल्शा । वि । रोह ॥३०.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 30; मन्त्र » 2

    टिप्पणीः - २−(यः) (ते) तव (मदः) हर्ष (अवकेशः) केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद् वा प्रकाशनाद्वा−निरु० १२।२५। शुद्धप्रकाशः (विकेशः) विविधप्रकाशः (येन) मदेन (अभिहस्यम्) हस विकशने−यत्। अभितो हसनीयं विकाशनीयम् (पुरुषम्) (कृणोषि) करोषि (आरात्) दूरे (त्वत्) त्वत्तः (अन्या) अन्यानि। विरुद्धानि। अविद्यारूपाणि (वनानि) वनु याचने−ल्युट्। याचनानि (वृक्षि) वृजी वर्जने−लुङ् अडभावः। छन्दस्युभयथा। पा० ३।४।११७। इति सार्वधातुकत्वात् इटो निषेधः। अवर्जिषि। अहं वर्जितवान् अस्मि (त्वम्) (शमि) अ० ६।११। हे शान्तिकरि सरस्वति (शतवल्शा) वल संवरणे−शक्। बह्वङ्कुरा बहुशाखा सती (वि) विविधम् (रोह) प्रादुर्भव ॥

    इस भाष्य को एडिट करें
    Top