Loading...
अथर्ववेद > काण्ड 6 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 30/ मन्त्र 3
    सूक्त - उपरिबभ्रव देवता - शमी छन्दः - चतुष्पदा शङ्कुमत्यनुष्टुप् सूक्तम् - पापशमन सूक्त

    बृह॑त्पलाशे॒ सुभ॑गे॒ वर्ष॑वृद्ध॒ ऋता॑वरि। मा॒तेव॑ पु॒त्रेभ्यो॑ मृड॒ केशे॑भ्यः शमि ॥

    स्वर सहित पद पाठ

    बृह॑त्ऽपलाशे । सुऽभ॑गे । वर्ष॑ऽवृध्दे । ऋत॑ऽवरि । मा॒ताऽइ॑व । पु॒त्रेभ्य॑: । मृ॒ड॒ । केशे॑भ्य: । श॒मि॒ ॥३०.३॥


    स्वर रहित मन्त्र

    बृहत्पलाशे सुभगे वर्षवृद्ध ऋतावरि। मातेव पुत्रेभ्यो मृड केशेभ्यः शमि ॥

    स्वर रहित पद पाठ

    बृहत्ऽपलाशे । सुऽभगे । वर्षऽवृध्दे । ऋतऽवरि । माताऽइव । पुत्रेभ्य: । मृड । केशेभ्य: । शमि ॥३०.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 30; मन्त्र » 3

    टिप्पणीः - ३−(बृहत्पलाशे) पल रक्षणे−अप्+अशूङ् व्याप्तौ संघाते च−अण्। बहूनि पलानि पालनानि अश्नुते व्याप्नोति सा। तत्सम्बुद्धौ, (सुभगे) हे बह्वैश्वर्यवति (वर्षवृद्धे) वृतॄवदि०। उ० ३।६२। इति वृञ् वरणे−स प्रत्ययः। वर्षैर्वरणीयगुणैः प्रवृद्धे (ऋतावरि) अ० ५।१५।१। हे सत्यशीले (माता इव) जननी यथा (पुत्रेभ्यः) सन्तानेभ्यः (मृड) सुखयुक्ता भव (केशेभ्यः) म० २ प्रकाशेभ्यः (शमि) हे शान्तिकारिणि सरस्वति ॥

    इस भाष्य को एडिट करें
    Top