Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 31/ मन्त्र 3
त्रिं॒शद्धामा॒ वि रा॑जति॒ वाक्प॑त॒ङ्गो अ॑शि॒श्रिय॑त्। प्रति॒ वस्तो॒रह॒र्द्युभिः॑ ॥
स्वर सहित पद पाठत्रिं॒शत् । धाम॑ । वि । रा॒ज॒ति॒ । वाक् । प॒त॒ङ्ग: । अ॒शि॒श्रि॒य॒त् । प्रति॑ । वस्तो॑: । अह॑: । द्युऽभि॑: ॥३१.३॥
स्वर रहित मन्त्र
त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्। प्रति वस्तोरहर्द्युभिः ॥
स्वर रहित पद पाठत्रिंशत् । धाम । वि । राजति । वाक् । पतङ्ग: । अशिश्रियत् । प्रति । वस्तो: । अह: । द्युऽभि: ॥३१.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 31; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(त्रिंशत् धामा) अहोरात्रस्य त्रिशन्मुहूर्ताख्यानि धामानि स्थानानि (वि) विविधम् (राजति) अन्तर्गतण्यर्थः। राजयति शास्ति दीपयति वा (वाक्) वेदवाणी (पतङ्गः) पतेरङ्गच् पक्षिणि। उ० १।११९। इति पत गतौ ऐश्वर्ये च−अङ्गच्। गतिशीलः। ऐश्वर्यवान् (अशिश्रियत्) णिश्रिद्रुस्रुभ्यः०। पा० ३।१।४८। इति श्रिञ् सेवायाम्−लुङि च्लेश्चङ्। आश्रितवती (प्रति) प्रत्यक्षम् (वस्तोः) ईश्वरे तोसुन्कसुनौ। पा० ३।४।१३। इति वस आच्छादने−कर्त्तरि तोसुन्। दिनम्−निघ० १।९। (अहः) दिनम् (द्युभिः) दिवु क्रीडाविजिगीषादिषु−क्विप्। किरणैः। गतिभिः ॥
इस भाष्य को एडिट करें