Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 32/ मन्त्र 2
सूक्त - चातन
देवता - रुद्रः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - यातुधानक्षयण सूक्त
रु॒द्रो वो॑ ग्री॒वा अश॑रैत्पिशाचाः पृ॑ष्टीर्वोऽपि॑ शृणातु यातुधानाः। वी॒रुद्वो॑ वि॒श्वतो॑वीर्या य॒मेन॒ सम॑जीगमत् ॥
स्वर सहित पद पाठरु॒द्र: । व॒: । ग्री॒वा: । अश॑रैत् । पि॒शा॒चा॒: । पृ॒ष्टी: । व॒: । अपि॑ । शृ॒णा॒तु॒ । या॒तु॒ऽधा॒ना॒:। वी॒रुत् । व॒:। वि॒श्वत॑:ऽवीर्या । य॒मेन॑ । सम् । अ॒जी॒ग॒म॒त् ॥३२.२॥
स्वर रहित मन्त्र
रुद्रो वो ग्रीवा अशरैत्पिशाचाः पृष्टीर्वोऽपि शृणातु यातुधानाः। वीरुद्वो विश्वतोवीर्या यमेन समजीगमत् ॥
स्वर रहित पद पाठरुद्र: । व: । ग्रीवा: । अशरैत् । पिशाचा: । पृष्टी: । व: । अपि । शृणातु । यातुऽधाना:। वीरुत् । व:। विश्वत:ऽवीर्या । यमेन । सम् । अजीगमत् ॥३२.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 32; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(रुद्रः) अ० २।२७।६। दुःखनाशकः सेनापति (वः) युष्माकम् (ग्रीवाः) गलावयवान् (अशरैत्) शॄ हिंसायां छान्दसं लुङि रूपम्। अशारीत्। शीर्णवान् (पिशाचाः) अ० १।१६।३। हे मांसभक्षका रोगाः प्राणिनो वा (पृष्टीः) अ० २।७।५। पार्श्वस्थीनि (अपि) एव (शृणातु) छिनत्तु (यातुधानाः) अ० १।७।१। हे पीडाप्रदाः (वीरुत्) अ० १।३२।१। वि+रुह प्रादुर्भावे−क्विप्। विविधं प्रादुर्भवित्री शक्तिः, परमेश्वरः (वः) युष्मान् (विश्वतोवीर्या) सर्वतः सामर्थ्या (यमेन) नियमेन (सम् अजीगमत्) इण् गम्लृ गतौ वा णिचि लुङ्। संगमितवान् ॥
इस भाष्य को एडिट करें