Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 32/ मन्त्र 3
सूक्त - अथर्वा
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
सूक्तम् - यातुधानक्षयण सूक्त
अभ॑यं मित्रावरुणावि॒हास्तु॑ नो॒ऽर्चिषा॒त्त्रिणो॑ नुदतं प्र॒तीचः॑। मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम् ॥
स्वर सहित पद पाठअभ॑यम् । मि॒त्रा॒व॒रु॒णौ॒ । इ॒ह । अ॒स्तु॒ । न॒: । अ॒र्चिषा॑ । अ॒त्त्रिण॑: । नु॒द॒त॒म् । प्र॒तीच॑: । मा । ज्ञा॒तार॑म् । मा । प्र॒ति॒ऽस्थाम् । वि॒द॒न्त॒ । मि॒थ: । वि॒ऽघ्ना॒ना: । उप॑ । य॒न्तु॒ । मृ॒त्युम् ॥३२.३॥
स्वर रहित मन्त्र
अभयं मित्रावरुणाविहास्तु नोऽर्चिषात्त्रिणो नुदतं प्रतीचः। मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥
स्वर रहित पद पाठअभयम् । मित्रावरुणौ । इह । अस्तु । न: । अर्चिषा । अत्त्रिण: । नुदतम् । प्रतीच: । मा । ज्ञातारम् । मा । प्रतिऽस्थाम् । विदन्त । मिथ: । विऽघ्नाना: । उप । यन्तु । मृत्युम् ॥३२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 32; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(अभयम्) भयराहित्यम् (मित्रावरुणौ) अ० १।२०।२। हे प्राणापानौ। अहोरात्रे (इह) अत्र (अस्तु) (नः) अस्मभ्यम् (अर्चिषा) तेजसा (अत्त्रिणः) अ० १।७।३। भक्षकान् (नुदतम्) प्रेरयतम् (प्रतीचः) अ० ३।१।४। प्रत्यङ्मुखान् (मा) निषेधे (ज्ञातारम्) ज्ञा चुरा० तोषे−तृच्। ज्ञापयितारं सन्तोषकम् (मा) (प्रतिष्ठाम्) आश्रयम् (मा विदन्त) विद्लृ लाभे−लुङ्, तकारश्छान्दसः। अविदन्। मा लभन्ताम् (मिथः) परस्परम् (विघ्नानाः) युधिबुधिदृशः किच्च। उ० २।९०। इति हन वधे−आनच् कित्। विघानका (उपयन्तु) प्राप्नुवन्तु (मृत्युम्) मरणम् ॥
इस भाष्य को एडिट करें