Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 33/ मन्त्र 1
सूक्त - जाटिकायन
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - इन्द्रस्तव सूक्त
यस्ये॒दमा रजो॒ युज॑स्तु॒जे जना॒ वनं॒ स्वः॑। इन्द्र॑स्य॒ रन्त्यं॑ बृ॒हत् ॥
स्वर सहित पद पाठयस्य॑ । इ॒दम् । आ । रज॑: । युज॑: । तु॒जे । जना॑:। वन॑म् । स्व᳡: । इन्द्र॑स्य । रन्त्य॑म् । बृ॒हत् ॥३३.१॥
स्वर रहित मन्त्र
यस्येदमा रजो युजस्तुजे जना वनं स्वः। इन्द्रस्य रन्त्यं बृहत् ॥
स्वर रहित पद पाठयस्य । इदम् । आ । रज: । युज: । तुजे । जना:। वनम् । स्व: । इन्द्रस्य । रन्त्यम् । बृहत् ॥३३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 33; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(यस्य) (इदम्) पुरोगतम् (आ) चार्थे (रजः) लोकः (युजः) ऋत्विग्दधृक्। पा० ३।२।५९। इति युजिर् योगे−क्विन्। संयोजकस्य परमेश्वरस्य (तुजे) तुज चुरा० बले−क। बले (जनाः) मनुष्याः (वनम्) उदकम्−निघ० १।१२। (स्वः) अ० २।५।२। सु+ऋ गतौ−विच्। सूर्यः। आदित्यः (इन्द्रस्य) परमैश्वर्यवत परमात्मनः (रन्त्यम्) क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति रमु क्रीडायाम् क्तिच्। न क्तिचि दीर्घश्च। पा० ६।४।३९। इति अनुनासिकलोपदीर्घयोरभावः। तत्र भवः पा० ४।३।५३। इति यत्। क्रीडाभवं रमणस्थानम् (बृहत्) महत् ॥
इस भाष्य को एडिट करें