Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 33/ मन्त्र 2
सूक्त - जाटिकायन
देवता - इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - इन्द्रस्तव सूक्त
नाधृ॑ष॒ आ द॑धृषते धृषा॒णो धृ॑षि॒तः शवः॑। पु॒रा यथा॑ व्य॒थिः श्रव॒ इन्द्र॑स्य॒ नाधृ॑षे॒ शवः॑ ॥
स्वर सहित पद पाठन । आ॒ऽधृ॒षे॒ । आ । द॒धृ॒ष॒ते॒ । धृ॒षा॒ण: । धृ॒षि॒त: । शव॑: । पु॒रा ।यथा॑ । व्य॒थि:। श्रव॑: । इन्द्र॑स्य । न । आ॒ऽधृ॒षे॒ । शव॑: । ३३.२॥
स्वर रहित मन्त्र
नाधृष आ दधृषते धृषाणो धृषितः शवः। पुरा यथा व्यथिः श्रव इन्द्रस्य नाधृषे शवः ॥
स्वर रहित पद पाठन । आऽधृषे । आ । दधृषते । धृषाण: । धृषित: । शव: । पुरा ।यथा । व्यथि:। श्रव: । इन्द्रस्य । न । आऽधृषे । शव: । ३३.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 33; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(न) निषेधे (आधृषे) धृष अभिभवे आदादित्वं छान्दसम्। लोपस्त आत्मनेपदेषु। पा० ७।१।४१। इति तलोपः। आधृष्टे। ईषद्धर्षयति अभिभवति (आ) ईषदर्थे, किञ्चित् (दधृषते) धर्षयति अभिभवति (धृषाणः) युधिबुधि०। उ० २।९०। इति धृष अभिवे−आनच् कित्। षष्ठ्यर्थे सुः। धृषाणस्य धर्षकस्य (धृषितः) अभिभूतः (शवः) बलम्−निघ० २।९। (पुरा) समीपे (यथा) यस्मात् (व्यथिः) सर्वधातुभ्य इन्। उ० ४।११८। इति व्यथ दुःखसंचलनयोः−इन्। दुःखितः (श्रवः) श्रूयमाणं यशः (इन्द्रस्य) ऐश्वर्यवतो जीवस्य (न) (आधृषे) (शवः) ॥
इस भाष्य को एडिट करें