Loading...
अथर्ववेद के काण्ड - 6 के सूक्त 32 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 32/ मन्त्र 3
    सूक्त - अथर्वा देवता - मित्रावरुणौ छन्दः - त्रिष्टुप् सूक्तम् - यातुधानक्षयण सूक्त
    42

    अभ॑यं मित्रावरुणावि॒हास्तु॑ नो॒ऽर्चिषा॒त्त्रिणो॑ नुदतं प्र॒तीचः॑। मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम् ॥

    स्वर सहित पद पाठ

    अभ॑यम् । मि॒त्रा॒व॒रु॒णौ॒ । इ॒ह । अ॒स्तु॒ । न॒: । अ॒र्चिषा॑ । अ॒त्त्रिण॑: । नु॒द॒त॒म् । प्र॒तीच॑: । मा । ज्ञा॒तार॑म् । मा । प्र॒ति॒ऽस्थाम् । वि॒द॒न्त॒ । मि॒थ: । वि॒ऽघ्ना॒ना: । उप॑ । य॒न्तु॒ । मृ॒त्युम् ॥३२.३॥

    स्वर रहित मन्त्र

    अभयं मित्रावरुणाविहास्तु नोऽर्चिषात्त्रिणो नुदतं प्रतीचः। मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥

    स्वर रहित पद पाठ

    अभयम् । मित्रावरुणौ । इह । अस्तु । न: । अर्चिषा । अत्त्रिण: । नुदतम् । प्रतीच: । मा । ज्ञातारम् । मा । प्रतिऽस्थाम् । विदन्त । मिथ: । विऽघ्नाना: । उप । यन्तु । मृत्युम् ॥३२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 32; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    विषय

    राक्षसों के नाश का उपदेश।

    पदार्थ

    (मित्रावरुणौ) हे प्राण और अपान ! [अथवा हे दिन और रात्रि !] (नः) हमारे लिये (इह) यहाँ पर (अभयम्) अभय (अस्तु) होवे, [तुम दोनों अपने] (अर्चिषा) तेज से (अत्त्रिणः) खा डालनेवालों को (प्रतीचः) उलटा (नुदतम्) हटा दो। वे लोग (मा) न तो (ज्ञातारम्) सन्तोषक पुरुष को और (मा)(प्रतिष्ठाम्) प्रतिष्ठा को (विदन्त) पावें, (मिथः) आपस में (विघ्नानाः) मारते हुए (मृत्युम्) मृत्यु को (उप यन्तु) प्राप्त हों ॥३॥

    भावार्थ

    मनुष्य अपने शारीरिक और आत्मिक बल और समय का ऐसा सुन्दर प्रयोग करें जिससे शत्रु लोग कही शरण न पावें और आपस में कट मरें ॥३॥

    टिप्पणी

    ३−(अभयम्) भयराहित्यम् (मित्रावरुणौ) अ० १।२०।२। हे प्राणापानौ। अहोरात्रे (इह) अत्र (अस्तु) (नः) अस्मभ्यम् (अर्चिषा) तेजसा (अत्त्रिणः) अ० १।७।३। भक्षकान् (नुदतम्) प्रेरयतम् (प्रतीचः) अ० ३।१।४। प्रत्यङ्मुखान् (मा) निषेधे (ज्ञातारम्) ज्ञा चुरा० तोषे−तृच्। ज्ञापयितारं सन्तोषकम् (मा) (प्रतिष्ठाम्) आश्रयम् (मा विदन्त) विद्लृ लाभे−लुङ्, तकारश्छान्दसः। अविदन्। मा लभन्ताम् (मिथः) परस्परम् (विघ्नानाः) युधिबुधिदृशः किच्च। उ० २।९०। इति हन वधे−आनच् कित्। विघानका (उपयन्तु) प्राप्नुवन्तु (मृत्युम्) मरणम् ॥

    इंग्लिश (1)

    Subject

    Germs and other Organisms

    Meaning

    O Mitra and Varuna, sun and air, sun and the physician, prana and apana energies of nature, let there be peace and security for us here. Force back the devitalizing and life threatening germs and insects. Let them find no intelligent ally, no stability, and let them, mutually conflictive and self-destroying, meet their death.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top