Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 39/ मन्त्र 2
सूक्त - अथर्वा
देवता - बृहस्पतिः, त्विषिः
छन्दः - जगती
सूक्तम् - वर्चस्य सूक्त
अच्छा॑ न॒ इन्द्रं॑ य॒शसं॒ यशो॑भिर्यश॒स्विनं॑ नमसा॒ना वि॑धेम। स नो॑ रास्व रा॒ष्ट्रमिन्द्र॑जूतं॒ तस्य॑ ते रा॒तौ य॒शसः॑ स्याम ॥
स्वर सहित पद पाठअच्छ॑। न॒: । इन्द्र॑म् । य॒शस॑म् ।यश॑:ऽभि: ।य॒श॒स्विन॑म् । न॒म॒सा॒ना: । वि॒धे॒म॒ । स: । न॒: । रा॒स्व॒ । रा॒ष्ट्रम् । इन्द्र॑ऽजूतम् । तस्य॑ । ते॒ । रा॒तौ । य॒शस॑: । स्या॒म॒ ॥३९.२॥
स्वर रहित मन्त्र
अच्छा न इन्द्रं यशसं यशोभिर्यशस्विनं नमसाना विधेम। स नो रास्व राष्ट्रमिन्द्रजूतं तस्य ते रातौ यशसः स्याम ॥
स्वर रहित पद पाठअच्छ। न: । इन्द्रम् । यशसम् ।यश:ऽभि: ।यशस्विनम् । नमसाना: । विधेम । स: । न: । रास्व । राष्ट्रम् । इन्द्रऽजूतम् । तस्य । ते । रातौ । यशस: । स्याम ॥३९.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 39; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अच्छ) सुष्ठु (नः) अस्मभ्यम्। स्वहिताय (इन्द्रम्) परमेश्वरम् (यशसम्) सुप आत्मनः क्यच्। पा० ३।१।८। इति यशः शब्दात्−क्यच्, क्विपि। अलोपयलोपौ। आत्मनो यश इच्छन्तम् (यशोभिः) अशेर्देवने युट् च। उ० ४।१९१। इति अशू व्याप्तौ−असुन्, युट् च धातोः। व्याप्तिभिः (यशस्विनम्) कीर्त्तिमन्तम् (नमसानाः) पूर्ववद् यशस्यतेः क्विपि शानच्। आत्मनेपदं छान्दसम्। नमस्यन्तः (विधेम) परिचरेम (सः) स त्वम् (नः) अस्मभ्यम् (रास्व) रासृ दाने। देहि (राष्ट्रम्) राज्यम् (इन्द्रजूतम्) परमेश्वरेण त्वया प्रेरितम् (तस्य) प्रसिद्धस्य (ते) तव (रातौ) दाने (यशसः) आत्मनो यश इच्छन्तः (स्याम) भवेम ॥
इस भाष्य को एडिट करें