Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 39/ मन्त्र 3
सूक्त - अथर्वा
देवता - बृहस्पतिः, त्विषिः
छन्दः - जगती
सूक्तम् - वर्चस्य सूक्त
य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत। य॒शा विश्व॑स्य भू॒त्स्या॒हम॑स्मि य॒शस्त॑मः ॥
स्वर सहित पद पाठय॒शा: । इन्द्र॑: । य॒शा: । अ॒ग्नि: । य॒शा: । सोम॑: ।अ॒जा॒य॒त॒ । य॒शा: । विश्व॑स्य । भू॒तस्य॑ । अ॒हम्। अ॒स्मि॒ । य॒श:ऽत॑म:॥३९.३॥
स्वर रहित मन्त्र
यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत। यशा विश्वस्य भूत्स्याहमस्मि यशस्तमः ॥
स्वर रहित पद पाठयशा: । इन्द्र: । यशा: । अग्नि: । यशा: । सोम: ।अजायत । यशा: । विश्वस्य । भूतस्य । अहम्। अस्मि । यश:ऽतम:॥३९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 39; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(यशाः) म० २। यशस्यतेः क्विप्। यशस्कामः (इन्द्रः) सूर्य्यः (यशाः) यशस्वी (अग्निः) पावकः (सोमः) चन्द्रः (अजायत) प्रादुरभवत् (यशाः) यशस्कामः (विश्वस्य) सर्वस्य (भूतस्य) भूतजातस्य। संसारस्य (अहम्) पुरुषार्थी (अस्मि) भवामि (यशस्तमः) अतिशयेन यशस्वी ॥
इस भाष्य को एडिट करें