Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 40/ मन्त्र 2
अ॒स्मै ग्रामा॑य प्र॒दिश॒श्चत॑स्र॒ ऊर्जं॑ सुभू॒तं स्व॒स्ति स॑वि॒ता नः॑ कृणोतु। अ॑श॒त्र्विन्द्रो॒ अभ॑यं नः कृणोत्व॒न्यत्र॒ राज्ञा॑म॒भि या॑तु म॒न्युः ॥
स्वर सहित पद पाठअ॒स्मै । ग्रामा॑य । प्र॒ऽदिश॑: । चत॑स्र: । ऊर्ज॑म् । सु॒ऽभू॒तम् । स्व॒स्ति । स॒वि॒ता । न॒: । कृ॒णो॒तु॒ । अ॒श॒त्रु॒ । इन्द्र॑: । अभ॑यम् । न॒: । कृ॒णो॒तु॒ । अ॒न्यत्र॑ । राज्ञा॑म् । अ॒भि । या॒तु॒ । म॒न्यु:॥४०.२॥
स्वर रहित मन्त्र
अस्मै ग्रामाय प्रदिशश्चतस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु। अशत्र्विन्द्रो अभयं नः कृणोत्वन्यत्र राज्ञामभि यातु मन्युः ॥
स्वर रहित पद पाठअस्मै । ग्रामाय । प्रऽदिश: । चतस्र: । ऊर्जम् । सुऽभूतम् । स्वस्ति । सविता । न: । कृणोतु । अशत्रु । इन्द्र: । अभयम् । न: । कृणोतु । अन्यत्र । राज्ञाम् । अभि । यातु । मन्यु:॥४०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 40; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(अस्मै) समीपस्थाय (ग्रामाय) जनसमूहाय (प्रदिशः) अत्यन्तसंयोगे द्वितीया। प्राच्यादिदिशाः प्रति (चतस्रः) चतुःसंख्यकाः (ऊर्जम्) पराक्रमम् (सुभूतम्) अ० १।३१।३। सुभूतिम्। प्रभूतं धनम् (स्वस्ति) क्षेमम् (सविता) सर्वप्रेरकः परमेश्वरः (नः) अस्मभ्यं च (कृणोतु) करोतु (अशत्रु) शत्रुरहितम् (इन्द्रः) परमैश्वर्यवान् जगदीश्वरः (अभयम्) भयराहित्यम्। शान्तिम् (नः) (कृणोतु) (अन्यत्र) अन्येषु शत्रुषु (राज्ञाम्) शासकानाम् (अभि) (यातु) प्राप्नोतु (मन्युः) क्रोधः ॥
इस भाष्य को एडिट करें