Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 40/ मन्त्र 3
अ॑नमि॒त्रं नो॑ अध॒राद॑नमि॒त्रं न॑ उत्त॒रात्। इन्द्रा॑नमि॒त्रं नः॑ प॒श्चाद॑नमि॒त्रं पु॒रस्कृ॑धि ॥
स्वर सहित पद पाठअ॒न॒मि॒त्रम् । न॒: । अ॒ध॒रात् । अ॒न॒मि॒त्रम् । न॒: । उ॒त्त॒रात् । इन्द्र॑ । अ॒न॒मि॒त्रम् । न॒: । प॒श्चात् । अ॒न॒मि॒त्रम् । पु॒र: । कृ॒धि॒ ॥४०.३॥
स्वर रहित मन्त्र
अनमित्रं नो अधरादनमित्रं न उत्तरात्। इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि ॥
स्वर रहित पद पाठअनमित्रम् । न: । अधरात् । अनमित्रम् । न: । उत्तरात् । इन्द्र । अनमित्रम् । न: । पश्चात् । अनमित्रम् । पुर: । कृधि ॥४०.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 40; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(अनमित्रम्) अमेर्द्विषति चित्। उ० ४।१७४। इति अम पीडने−भावे इत्रच्। निर्वैरत्वम् (नः) अस्मभ्यम् (अधरात्) अधस्तात् (उत्तरात्) उपरिदेशात् (इन्द्र) हे महाप्रतापिन् जगदीश्वर (पश्चात्) अ० ४।४०।३। पृष्ठतो देशात् (पुरः) अग्रदेशात् (कृधि) कुरु। अन्यद्गतम् ॥
इस भाष्य को एडिट करें