Loading...
अथर्ववेद > काण्ड 6 > सूक्त 50

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 50/ मन्त्र 1
    सूक्त - अथर्वा देवता - अश्विनौ छन्दः - विराड्जगती सूक्तम् - अभययाचना सूक्त

    ह॒तं त॒र्दं स॑म॒ङ्कमा॒खुम॑श्विना छि॒न्तं शिरो॒ अपि॑ पृ॒ष्टीः शृ॑णीतम्। यवा॒न्नेददा॒नपि॑ नह्यतं॒ मुख॒मथाभ॑यं कृणुतं धा॒न्याय ॥

    स्वर सहित पद पाठ

    ह॒तम् । त॒र्दम् । स॒म्ऽअ॒ङ्कम् । आ॒खुम् । अश्वि॑ना । छि॒न्तम् । शिर॑: । अपि॑ । पृ॒ष्टी: । शृ॒णी॒त॒म् । यवा॑न् । न । इत् । अदा॑न् । अपि॑ । न॒ह्य॒त॒म्। मुख॑म् । अथ॑ । अभ॑यम् । कृ॒णु॒त॒म् । धा॒न्या᳡य ॥५०.१॥


    स्वर रहित मन्त्र

    हतं तर्दं समङ्कमाखुमश्विना छिन्तं शिरो अपि पृष्टीः शृणीतम्। यवान्नेददानपि नह्यतं मुखमथाभयं कृणुतं धान्याय ॥

    स्वर रहित पद पाठ

    हतम् । तर्दम् । सम्ऽअङ्कम् । आखुम् । अश्विना । छिन्तम् । शिर: । अपि । पृष्टी: । शृणीतम् । यवान् । न । इत् । अदान् । अपि । नह्यतम्। मुखम् । अथ । अभयम् । कृणुतम् । धान्याय ॥५०.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 50; मन्त्र » 1

    टिप्पणीः - १−(हतम्) हन्तेर्लोट्। युवां नाशयतम् (तर्दम्) तर्द हिंसायाम्−अच्। हिंसकं काकादिकम् (समङ्कम्), अकि लक्षणे−अच्। भूमौ अङ्कनशीलं शूकरादिकम् (आखुम्) आड्परयोः खनिशॄभ्यां डिच्च। उ० १।३३। इति आङ्+खनु अवदारणे−उ, स च डित्। खननशीलमूषकादिकम् (अश्विना) अ० २।२९।६। अश्विनौ। हे कर्मसु व्यापनशीलौ स्त्रीपुरुषौ (छिन्तम्) भिन्तम् (शिरः) ललाटम् (अपि) (पृष्टीः) अ० २।७।५। पार्श्वास्थीनि (शृणीतम्) हिंस्तं चुर्णीकुरुतम् (यवान्) यवाद्यन्नानि (न इत्) नैव (अदान्) अद भक्षणे−लेट्। भक्षयेयुः (अपि) (नह्यतम्) बध्नीतम् (मुखम्) (अथ) अनन्तरम् (अभयम्) भयराहित्यं कुशलम् (कृणुतम्) कुरुतम् (धान्याय) अन्नवर्धनाय ॥

    इस भाष्य को एडिट करें
    Top