Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 49/ मन्त्र 3
सूक्त - गार्ग्य
देवता - अग्निः
छन्दः - विराड्जगती
सूक्तम् - अग्निस्तवन सूक्त
सु॑प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः। नि यन्नि॒यन्ति॒ उप॑रस्य॒ निष्कृ॑तिं पु॒रू रेतो॑ दधिरे सूर्यश्रितः ॥
स्वर सहित पद पाठसु॒ऽप॒र्णा: । वाच॑म् । अ॒क्र॒त॒ । उप॑ । द्यवि॑ । आ॒ऽख॒रे । कृष्णा॑: । इ॒षि॒रा: । अ॒न॒र्ति॒षु॒: । नि । यत् । नि॒ऽयन्ति॑ । उप॑रस्य । नि:ऽकृ॑तिम् । पु॒रु । रेत॑: । द॒धि॒रे॒ । सू॒र्य॒ऽश्रित॑: ॥४९.३॥
स्वर रहित मन्त्र
सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः। नि यन्नियन्ति उपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रितः ॥
स्वर रहित पद पाठसुऽपर्णा: । वाचम् । अक्रत । उप । द्यवि । आऽखरे । कृष्णा: । इषिरा: । अनर्तिषु: । नि । यत् । निऽयन्ति । उपरस्य । नि:ऽकृतिम् । पुरु । रेत: । दधिरे । सूर्यऽश्रित: ॥४९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 49; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(सुपर्णाः) अ० १।२४।१। सुपालकाः। शोभनपतनाः किरणाः (वाचम्) शब्दम् (अक्रत) करोतेर्लुङि। मन्त्रे घसह्वरणश०। पा० २।४।८०। इति च्लेर्लुक्। अकृषत। कृतवन्तः (उप) उपेत्य (द्यवि) गमेर्डोसिः। उ० २।६९। इति द्युत दीप्तौ−डोसि। द्योतते द्यौः। अन्तरिक्षे (आखरे) डरो वक्तव्यः। वा० पा० ३।३।१२५। इति आङ्+खनु अवदारणे−डर। समन्तात् खननीये (कृष्णाः) अ० ५।२३।५। रसानामाकर्षकाः (इषिराः) अ० ५।१।९। गमनशीलाः (अनर्तिषुः) नृती गात्रविनामे−लुङ्। नृत्यन्ति स्म। चेष्टां कृतवन्तः (नि) नियमेन (यत्) यदा (नियन्ति) नीचैः प्राप्नुवन्ति (उपरस्य) म० २। उपर उपलो मेघो भवत्युपरमन्तेऽस्मिन्नभ्राण्युपरता आप इति वा−निरु० २।२१। मेघस्य (निष्कृतिम्) अ० ४।२७।६। निर्माणम् (उरु) बहुलम् (रेतः) अ० २।२८।५। जलम्−निघ० १।१२। (दधिरे) धृतवन्तः (सूर्यश्रितः) श्रिञ्−सेवायाम्−क्विप्। सूर्यं प्राप्ताः किरणाः ॥
इस भाष्य को एडिट करें