Loading...
अथर्ववेद > काण्ड 6 > सूक्त 49

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 49/ मन्त्र 2
    सूक्त - गार्ग्य देवता - अग्निः छन्दः - जगती सूक्तम् - अग्निस्तवन सूक्त

    मे॒ष इ॑व॒ वै सं च॒ वि चो॒र्वच्यसे॒ यदु॑त्तर॒द्रावुप॑रश्च॒ खाद॑तः। शी॒र्ष्णा शिरोऽप्स॒साप्सो॑ अ॒र्दय॑न्नं॒शून्ब॑भस्ति॒ हरि॑तेभिरा॒सभिः॑ ॥

    स्वर सहित पद पाठ

    मे॒ष:ऽइ॑व । वै । सम् । च॒ । वि । च॒ । उ॒रु । अ॒च्य॒से॒ । यत् । उ॒त्त॒र॒ऽद्रौ । उप॑र: । च॒ । खाद॑त: । शी॒र्ष्णा: । शिर॑: । अप्स॑सा । अप्स॑: । अ॒र्दय॑न् । अं॒शून् । ब॒भ॒स्ति॒ । हरि॑तेभि: । आ॒सऽभि॑:॥४९.२॥


    स्वर रहित मन्त्र

    मेष इव वै सं च वि चोर्वच्यसे यदुत्तरद्रावुपरश्च खादतः। शीर्ष्णा शिरोऽप्ससाप्सो अर्दयन्नंशून्बभस्ति हरितेभिरासभिः ॥

    स्वर रहित पद पाठ

    मेष:ऽइव । वै । सम् । च । वि । च । उरु । अच्यसे । यत् । उत्तरऽद्रौ । उपर: । च । खादत: । शीर्ष्णा: । शिर: । अप्ससा । अप्स: । अर्दयन् । अंशून् । बभस्ति । हरितेभि: । आसऽभि:॥४९.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 49; मन्त्र » 2

    टिप्पणीः - २−(मेष) मिष स्पर्धने सेचने च−अच्। पशुभेदः (इव) यथा (वै) निश्चयेन (सम्) संगत्य (च च) समुच्चये (वि) व्याप्य (उरु) बहुलम् (अच्यसे) गच्छसि (यत्) यदा (उत्तरद्रौ) द्रु गतौ−डु। उच्चशाखायाम् (उपरः) उप+रमु उपरमे−ड। उपरितः। स्थितो वर्तसे (च) (खादतः) प्रथमार्थे षष्ठी। खादन् भक्षयन् (शीर्ष्णा) शिरसा (शिरः) मस्तकम् (अप्ससा) रूपेण (अप्सः) आपः कर्माख्यायां ह्रस्वो नुट्च वा। उ० ४।२०८। इति आप्लृ व्याप्तौ−असुन्, अकारलोपः। अप्स इति रुपनामाप्सातेरप्सानीयं भवति आदर्शनीयं व्यापनीयं वा−निरु० ५।१३। रूपम्। आकारम् (अर्दयन्) पीडयन् (अंशून्) अंश विभाजने−कु। सूर्यादिलोकान् (बभस्ति) म० १। भक्षयति भवान् (हरितेभिः) हरितैः। हरणशीलैः (आसभिः) असु क्षेपणे−घञ्। आसैः। असनसामर्थ्येः ॥

    इस भाष्य को एडिट करें
    Top